________________
उद्देशक : ३, मूलं- १०४, [भा. ४७१९]
भूयांसस्तेषामाग्रहात् तदानीं न शक्नोति गन्तुम्, क्षेत्रं वा तदतीवस्निग्ध-मधुराहारादिलाभसम्पन्नं शैक्षस्य च तत्र सागारिकम् अतस्तद् मोक्तव्यम् मा भूत्, 'एतैः' एवमादिभि कारणैः शैक्षस्य सङ्गारं यः करोति तस्य चतुर्गुरु ।। अथ गृहस्था किमर्थं सङ्गारं कुर्वन्ति ? इत्याह[भा. ४७२०] रिण वाहिं मोक्खेउं, कुडुंबवित्तिं वऽतिच्छिते गिम्हे । एमादिअनाउत्ते, करिति गिहिणो उ संगारं ।।
वृ ऋणं वा व्याधिं वा 'मोक्षयितुम्' अपनेतुम्, कुटुम्बस्य वा पश्चान्निर्वहणयोग्यां वृत्तिं सम्पादयितुम्, यद्वा ग्रीष्मस्तदानीमतिक्रान्तो वर्षावास आयातः, एवमादिभि कारणैः अनायुक्तेअक्षणिकतायां गृहिणः सङ्गारं कुर्वन्ति ॥ अथ द्वितीयपदेन सङ्गारे प्रतीष्यमाणे आभाव्यविधिमाह[भा. ४७२१] अगविट्ठो मि त्ति अहं, लब्भति असढेहि विप्परिणतो वि ।
चोयंतऽ प्पार्हति व ते वि य नं अंतरा गंतुं ॥
वृ-सङ्गारे कृते यदि 'अशठै: ' ग्लानादिकार्यव्यापृतैः स शैक्षो न गवेषितस्तदाऽसौ 'अगवेषितः’ 'नैकमपि वारमहममीभिर्गवेषितः' इति बुध्या विपरिणतोऽपि लभ्यते, तेषामेवाभवतीत्यर्थ; परं तेऽपि साधवस्तमन्तराऽन्तरा गत्वा 'नोदयन्ति' सङ्केतस्मारणापुरस्सरं शिक्षयन्ति, अथ स्वयं गन्तुं न प्रभवन्ति ततः " अप्पाहेंति" सन्देशं तस्य प्रेषयन्ति ।।
[भा. ४७२२]
एवं खलु अच्छिन्ने, छिन्ने वेला तहेव दिवसेहिं ।
वेला पुत्रमपुत्रे, वाघाए होइ चउभंगो ॥
वृ- एवं तावद् 'अच्छिन्ने' अनियते सङ्गारे विधिरुक्तः, यस्तु छिन्नः सङ्गारस्तत्र विधिरभिधीयतेछिन्नो नाम क्षेत्रतः कालतश्च प्रतिनियतः । क्षेत्रतो ग्राम - वनखण्डादौ प्रव्रज्यादानार्थं भवद्भिः समागन्तव्यम्, कालतो वेलया दिवसैर्मासैश्च प्रतिनियतैः । तत्र च "वेला पुन्नमपुन्ने” त्ति वेलया उपलक्षणत्वाद् दिवसैश्च पूर्णेऽपूर्णे वा सङ्गारकाले व्याघातो भवेत्, तत्र चेयं चतुर्भङ्गी-कालः पूर्णो निव्यार्घातं च प्राप्ताः कालः पूर्ण परं व्याघातः सञ्जातः, कालोऽद्याप्यपूर्ण परं निव्यार्घातं तत्र प्राप्ताः, कालोऽप्यपूर्णो व्याघातोऽपि जात इति ४ । अथवा अन्यथा चतुर्भङ्गी-संयतस्य व्याघातो न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य, द्वयोरपि व्याघातः, द्वयोरपि न व्याघातः ॥ तत्र संयतस्य व्याघाते विधिमाह
"
[भा. ४७२३] मंदट्ठिगा ते तहियं च पत्तो, जति मन्नते ते य सढा न होंति । सोभती अन्नगतो वि ताहे, दप्पट्ठिया जे न उ ते लभंती ॥
७१
वृ- यत्र ग्रामादौ सङ्केतः कृत आसीत् तत्र स शैक्षः प्राप्तः साधवस्तु न प्राप्ताः, ततो यद्येवं मन्यते-‘मन्दार्थिनस्ते मद्विषये, मन्दप्रयोजना अत एव नायाताः' इति बुध्या विपरिणतः, ते च साधवो यदि 'शठाः' व्रजिकादिप्रतिबन्धयुक्ता न भवन्ति, ग्लानादिकार्यव्यापृततया नायाता इति भावः; ततः स शैक्षः 'अन्यगतोऽपि ' अन्यमाचार्यमभ्युपगतोऽपि तैः साधुभिर्लभ्यते । ये तु दर्पतः स्थितास्ते नैव तं लभन्ते, येन प्रव्राजितस्तस्यैवासौ शिष्य इति ॥
[भा. ४७२४]
पंथे धम्मक हिस्सा, उवसंतो अंतरा उ अन्नस्स । अभिधारितो तस्स उ, इयरं पुन जो उ पव्वावे ॥
वृ यद्यसौ येन साधुना सङ्केतो दत्तस्तदभिमुखं प्रस्थितः पथि गच्छन् अन्तराऽन्यस्य धर्मकथिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org