SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ बृहत्कल्प-छेदसूत्रम् - ३-४/१३८ वृ- अत्र पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्घयेन योजना-नावुत्तरणस्थानाद् यदि द्वे योजने वक्रं स्थलेन गम्यते तेन गन्तव्यं न च नौरारोढव्या, "लेवहिट्ठ'' त्ति लेपस्याधस्ताद् दकसङ्घट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपर्याहारेण लेपेन गच्छतु मा च नावमधिरुहत्, अर्द्धयोजनपर्यवहारेण लेपोपरिणा गच्छेत् न च नावमधिरोहेत्; एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते । एवमेव लेपोपरिस्थानात् सार्द्धयोजन परिहारेण स्थलेन, एकयोजनपरिरयेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां न च लेपोपरिणा । लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन, अर्द्धयोजन परिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन । सङ्घट्टोत्तरणस्थानादर्द्धयोजनपर्यवहारेण स्थलेन गम्यतां न च सङ्घट्टेन । एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सङ्घट्टेन वा गम्यते न कश्चिद्दोषः ॥ अत्र " नाव थल "त्ति पदं व्याचष्टे [ भा. ५६५७ ] दो जोयणाइं गंतुं, जहियं गम्मति थलेण तेन वए । माय दुरूहे नावं, तत्थावाया बहू वुत्ता ॥ वृ द्वे योजने गत्वा यत्र स्थलेन गम्यते तेन पथा व्रजेद् माच नावमारोहत् । यतस्तत्र बहवोऽपायाः पूर्वमेवोक्ताः । कारणे तु तत्रापि गम्यते । तत्र सङ्घट्टे गच्छतां तावद् यतनामाह [ भा. ५६५८ ] थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमनं, जति पंथो तेन जतनाए । वृ- स्थलसङ्क्रमणे यतना कार्या, एकं पादं जले एकं च पादं स्थले कुर्यादित्यर्थः । प्रलोकना नाम - लोकमुत्तरन्तं प्रलोकयति, यस्मिन् पार्श्वे जङ्घार्द्धमात्रमुदकं तत्र गच्छति । अथोत्तरतो न पश्यति ततः प्रातिपथिकमन्यं वा पृच्छति, ततो यत्र नीचतरमुदकं तत्रोत्तरणं विधेयम् । "परिपुच्छिऊण" इत्यादि, यदि तस्योदकस्य परिहारेण पन्था विद्यते तदा तं परित्यज्य यतनया तेन गन्तव्यम् ।। अथ स्थलपथेऽमी दोषा भवेयुः [ भा. ५६५९ ] समुदानं पंथो वा, वसही वा थलपथेण जति नत्थि । सावत- तेनभयं वा, संघदेणं ततो गच्छे ॥ वृ- 'समुदानं' भिक्षा तत्र नास्ति, स्थलपथ एव वा नास्त, वसतिर्वा स्थलपथे यदि न समस्ति, श्राव भयं स्तेनभयं वा तत्र विद्यते ततः स्थलपथं मुक्त्वा सङ्घट्टेन प्रथमतो गच्छेत्, तदभावे लेपेन । तत्रेयं यतना[भा. ५६६० ] 4 निभये गारत्थीणं, तु मग्गतो चोलपट्टमुस्सारे । सभ अथग्घे वा, उत्तिनेसुं घनं पट्टं ॥ वृ- यदि स साधुर्गृहिसार्थसहायस्तत उदकसमीपं गत्वोर्द्धकायं मुखवस्त्रिकयाऽघः कार्य रजोहरणेन प्रमाज्योर्पकरणमेकतः कृत्वा यदि निर्भयं चौरभयं नास्ति ततो गृहस्थानां 'मार्गतः' सर्वपश्चादुदकमवतरति । यथा यथा चोण्डमुण्डतरं जलमवगाहते तथा तथोपर्युपरि चोलपट्टकमुत्सारयेद् येन न तीम्यते । अथ तत्र सभयम् अस्ताधं वा जलं ततो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुनाऽवतरणीयम् चोलपट्टकं च 'घनं' ढं बघ्नीयात् ॥ एतेन विधिनोत्तीर्णस्य यदि चोपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं तीमितं तदाऽयं विधिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy