________________
उद्देशकः ४, मूलं-१३८, [भा. ५६६१]
२६३ [भा.५६६१] दगतीरे वा चिट्टे, निप्पगलो जाव चोलपट्टोतु।
.. सभए पलंबमाणं, गच्छति काएण अफुसंतो॥ वृ-'दकतीरे' स्निग्धपृथिव्यामप्कायरक्षणार्थंतावत् तिष्ठेत्यावत् चोलपट्टकोऽन्यद्वोपकरणं निष्प्रगलं भवति।अथ तत्र तिष्ठतः सभयंततः प्रगलन्तमेवतंचोलपट्टकं कायेनास्पृशन्बाहायां प्रलम्बमानं नयन् गच्छति ॥ यत्र सार्थविरहित एकाकी समुत्तरति तत्रायं विधिः[भा.५६६२] असइ गिहि नालियाए, आणक्खेउं पुनो विपडियरणं ।
एगाभोगंच करे, उवकरमंलेव उवरिंवा॥ कृ-गृहिणामभावेसर्वोपकरणमवतरणतीरे मुक्त्वा नालिकां-आत्मप्रमाणात्चतुरङ्गुलातिरिक्तां यष्टिं गृहीत्वा तया “आनक्खेउं" अस्ताघतामनुमीय परतीरात् पुनरपिजले प्रतिचरणं करोति, प्रत्यागच्छतीत्यर्थः; आगत्य च तदुपकरणमेकाभोगं करोति, एकत्र नियन्त्रयतीत्यर्थः; ततस्तद् गृहीत्वा तेन परीक्षितजलपथेनोत्तरति । एष लेपे लेपोपरौ वा विधिरुक्तः॥
अथ नावं यैः कारणैरारोहेत् तानि दर्शयति[भा.५६६३] बिइयपय तेन सावय, भिक्खेवा कारणे व आगाढे।
कज्जवहि मगर छुब्मण, नावोदगतं पिजतनाए। वृ-द्वितीयपदमत्रोच्यते-स्थल-सट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयोवाश्वापदा भवेयुः, भैक्षं वा न लभ्यते, आगाढं वा कारणम्-अहिदष्ट-विष-विसूचिकादिकं भवेत् तत्र त्वरितमौषधान्यानेतव्यानि, कुलादिकार्यं वा अक्षेपेण करणीयमुपस्थितम्, उपधेरुत्पादनाथवा गन्तव्यम्, लेपे लेपोपरौ वा मकरभयं ततो नावमारोहेत् । तत् च प्रथममेवोपकरणमेकाभोगं कुर्यात् । कुतः? इत्याह-“छुब्मण"त्ति कदाचित्प्रत्यनीकन उदके प्रक्षिप्येत, तत एकाभोगकृतेषुभाजनेषु विलग्नस्तरतीति । “नावोदगतंपिजयणाए"त्तियदिबलाभियोगेन नावुदकस्योत्सेचापन कार्यत तदा तदपि यतनया कर्तव्यम् । कथं पुनरेकाभोगमुपकरणं करोति? इत्याह[भा.५६६४] पुरतो दुरुहणमेगतो, पडिलेहा पुव्व पच्छ समगंवा ।
सीसे मग्गतो मज्झे, बितियं उवकरण जयणाए। वृ-गृहिणांपुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति । "दुरुहण"तिनावमारो दुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्षणीयम् । “पडिलेह"त्ति ततोऽधःकायं रजोहरणेन उपरिकार्यमुखानन्तकेन प्रमृज्य भाजनान्येकत्रबध्नाति, तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति। "पुव्व पच्छ समगं व" ति किं गृहिभ्यः पूर्वमारोढव्यम् ? उत पश्चात् ? उताहो समकम् ? अत्रोत्तरम्-यदि भद्रका नाविकादयो यदि च स्थिरा नौर्न दोलायते ततः पूर्वमारोढव्यम्; अथ प्रान्ताः ततः पूर्वं नारुह्यते, मा 'अमङ्गलम्' इति कृत्वा प्रद्वेषं गमन्, तेषां प्रान्तानां भावं ज्ञात्वा समकंपश्चाद्वाआरोहणीयम् । “सीसे"त्ति नावः शिरसिनस्थातव्यम्, देवतास्थानंतदितिकृत्वा; मार्गतोऽपि न स्थातव्यम्, निर्यामकस्तत्तर तिष्ठतीति कृत्वा; मध्येऽपि यत्र कूपकस्थानं तत्र न स्थातव्यम्, तद् मुक्त्वा यद् अपरंमध्ये स्थानं तत्रस्येयम् । अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतोवायत्रतेस्थापयन्तितत्र निराबाधे स्थीयते।साकारंसक्तंप्रत्याख्याय नमस्कारपरस्तिष्ठति। उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति । सारोपधिश्च पूर्वमेवाल्पसागारिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org