________________
उद्देशक: ५, मूलं- १४७, [भा. ५७७५ ]
२८३
वृ- एवमेव गणिन आचार्यस्य च मन्तव्यम् । नवरम्-उपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षान् तपः प्रायश्चित्तम्, परतश्छेदः; आचार्यस्यानुपशाम्यो द्वौ पक्षौ तपः, परतश्छेदः । शिष्यः पृच्छति - किं सध्शापराधे विषमं प्रायश्चित्तं प्रयच्छथ राग-द्वेषिणो यूयम् ? । आचार्य प्राहकुमारष्टान्तो ऽत्र भवति, स चोत्तरत्राभिधास्यते ॥ ये ते उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशद्दिवसा भवन्ति, ततः
[ भा. ५७७६ ] पणयाल दिना गणिणो, चउहा काऊण साहिएक्कारा । भत्तट्ठण सज्झाए, वंदन लावे य हावेति ॥
वृ-गणिनः सम्बन्धिनः पञ्चचत्वारिंशद् दिवसाश्चतुर्धा क्रियन्ते, चतुर्भागे च साधिकाः - सपादा एकादश दिवसा भवन्ति । तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थनं करोति, एवं स्वाध्याय-वन्दना-ऽऽलापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तु परिहापवति । पञ्चचत्वारिंशद्दिवसानन्तरं चोपाध्यायस्य दशकच्छेदः । आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुर्भिर्मासैर्भक्तार्थनादीनि परिहापयन संवत्सरं सारयति ।।
आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशद् दिवसा भवन्ति, ततः
[भा. ५७७७] तीस दिने आयरिए, अद्धट्ठ दिने य हावणा तत्थ । गच्छेण चउपदेहि तु, निच्छूढे लग्गती छेदो ॥
वृ-त्रिंशद्दिवसाश्चतुर्भागेन विभक्ता अर्द्धष्टमा दिवसा भवन्ति । तत्र गच्छ आचार्येण सहार्द्धाष्टमानि दिनानि भक्तार्थनं करोति, एवं स्वाध्याय वन्दना ऽऽलापानपि यथाक्रममर्द्धाष्टमैर्दिवसैःप्रत्येकं हापयति । ततः परं गच्छेन चतुर्भिरपि भक्तार्थनादिभिः पदैर्निष्काशित आचार्य पञ्चदशके च्छेद लगति । ततः
[ भा. ५७७८]
संकंतो अन्नगणं, सगणेण य वज्जितो चतुपदेहिं ।
आयरिओ पुन नवरिं, वंदन-लावेहि नं सारे ।
वृ- स्वगणेन भक्तार्थनादिभिश्चतुर्भिः पदैर्यदा वर्जितस्तदा अन्यगणं सङ्क्रान्तः । स पुनरन्यगणस्याचार्य 'नवरं' केवलं वन्दना -ऽऽलापाभ्यां द्वाभ्यां पदाभ्यां सम्भुञ्जानः सारयति यावद् वर्षम् ॥
[भा. ५७७९]
सज्झायमाइएहिं दिने दिने सारणा परगणे वि । नवरं पुन नाणत्तं तवो गुरुस्सेतरे छेदो ॥
वृ- परगणेऽपि सङ्क्रान्तस्याचार्यस्य स्वाध्यायादिभि पदैर्दिने दिने सारणा क्रियते । नवरं परगणे सङ्क्रान्त्येदं 'नानात्वं' विशेषः - अन्यगणसत्कस्य गुरोरसारयतस्तपः प्रायश्चित्तम्, 'इतरस्य पुनः अधिकरणकारिण आचार्यस्यानुपशाम्यतश्छेदः ॥ अत्र परः प्राह-रागद्वेषिणे यूयम्, आचार्यं शीघ्रं छेदं प्रापयथ, उपाध्यायं बहुतरेण कालेन, भिक्षं ततोऽपि चिरतरेण, एवं हि भिक्षूपाध्याययोर्भवतां रागः आचार्ये द्वेषः । अत्र सूरि प्रागुद्दिष्टं कुमार दृष्टान्तमाह
[भा. ५७८० ]
सरिसावराधेदंडो, जुवरन्नो भोगहरण-बंधादी । मज्झिम बंध- वहादी, अवत्ति कन्नादि खिंसा वा ॥
वृ- एगस्स रन्नो तिन्नि पुत्ता- जेट्ठो मज्झिमो कनिट्ठो य । तेहि य तिहि वि सामच्छियं पितरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org