________________
२८२
बृहत्कल्प-छेदसूत्रम् -३-५/१४७
[भा. ५७७०]
एवं बारस मासे, दोसु तवो सेस भवे छेदो । परिहायमाण तद्दिवस तवो मूलं पडिकंते ॥
वृ एवं द्वादशमास्यामप्यनुपशाम्यतः 'द्वयोः' आदिममासयोर्यावद् गच्छेन विसर्जितः तावत् तपः प्रायश्चित्तमेव, 'शेषेषु' दशसु मासेषु पञ्चरात्रिन्दिवच्छेदः यावत् सांवत्सरिकं पर्व प्राप्तं भवति । पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्ने एष विधिरुक्तः । “परिहायमाण तद्दिवस" त्ति पर्युषणापारणकदिनादेकैकदिवसेन परिहीयमानेन तावद् नेयं यावत् 'तद्दिवसं' पर्युषणादिवस एवाधिकरणमुत्पन्नं तत्र च तपो मूलं वा भवति न च्छेदः । "पडिक्कंते" त्ति अथ प्रतिक्रमणं कुर्वतामुत्पन्नं ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं भवति । एतदेव सुव्यक्तमाह[भा. ५७७१] एवं एक्केक्कदिने, हवेत्तु ठवणादिणे वि एमेव । चेइयवंदन सारे, तम्मि वि काले तिमासगुरू ।
वृ-भाद्रपद शुद्धपञ्चम्यां अनुदित आदित्ये यद्यधिकरणमुत्पद्यते तः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति, षष्ट्यामुत्पन्ने एकदिवसोनः संवत्सरः, सप्तम्यां दिवसद्वयोनः, एवमेकैकं दिनं हापयित्वा तावद् नेयं यावत् स्थापनादिनं पर्युषणादिवसः । तत्र चानुदिते रवौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या प्रथमं स्वाध्यायप्रस्थापनं कर्तुकामैः सारणीयः, ततश्चैत्यवन्दनार्थं गन्तुकामाः सारयेयुः, तत्राप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति । एवं तस्मिन्नपि पर्युषणाकालदिवसे त्रिषु स्वाध्यायप्रस्थापनादिषु स्थानेषु नोदितस्यानुपशान्तस्य त्रीणि मासगुरुकाणि भवन्ति ॥ [भा. ५७७२] पडिकंते पुन मूलं, पडिक्कमंते व होज अधिकरणं । संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाई ॥
वृ- पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्ति कर्तव्येति कृत्वा 'प्रतिक्रान्ते' समाप्ते आवश्यके यदि नोपशान्तस्ततो मूलम् । “पडिक्कमंते व" त्ति अथ प्रतिक्रमणे प्रारब्धे यावत् सांवत्सरिको महाकायोत्सर्गस्तावद् अधिकरणे कृते मूलमेव केवलम्, न शेषाणि प्रायश्चित्तानि ॥
[भा. ५७७३] संवच्छरं च रुट्ठ, आयरिओ रक्खए पयत्तेण । जति नाम उवसमेजा, पव्वयरातीसरिसरोसो ॥
वृ-एवमाचार्यस्तं रुष्टं संवत्सरं प्रयलेन रक्षति । किमर्थम् ? इत्याह-‘यदि नाम' कथञ्चिदुपशाम्येत। अथ संवत्सरेणापि नोपशाम्यति ततः पर्वतराजीसद्दशरोषः स मन्तव्यः ॥
तस्य च वर्षादूर्ध्वं को विधि: ? इत्याह
[भा. ५७७४] अने दो आयरिया, एक्केक्कं वरिसमेत्तमे अस्स । तेन परं गिहि एसो, बितियपदं रायपव्वइए ।
वृ- तं वर्षादूर्ध्वं मूलाचार्यसमीपाद् निर्गतमन्यौ द्वावाचार्यौ क्रमेणैकैकं वर्षमेतेनैव विधिना प्रयत्नेन संरक्षतः, तन्मध्याद् येनोपशमितस्तस्यैवासौ शिष्यः । 'ततः परं' वर्षत्रयादूर्ध्वमेष गृही क्रियते, सङ्घस्तदीयं लिङ्गमपहरतीत्यर्थः । द्वितीयपदे राजप्रव्रजितस्य लिङ्गं प्रस्तरदोषभयान्न ह्रियते । एवं भिक्षोरुक्तम् ॥
[भा. ५७७५] एमेव गणा-ऽऽयरिए, गच्छम्मि तवो उतिन्नि पक्खाई । दो पक्खा आयरिए, पुच्छा य कुमारदिट्ठतो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org