________________
३८२
बृहत्कल्प-छेदसूत्रम् -३-६/२०६
सणिज खंभ कुड्डे, कुट्टे इमाई पलवंतो ॥
वृ-गोयावरी नदी तडे अ पतिट्ठाणं नगरं । तत्थ सालवाहणो राया । तस्स खरओ अमञ्च्चो। अन्नया सो सालवाहनो राया दंडनायगमानवेइ-महुरं घेत्तूणं सिग्घमागच्छ । सो य सहसा अपुच्छिऊण दंडेहिं सह निग्गओ । तओ चिंता जाया का महुरा घेत्तव्वा ? दक्खिणमहुरा उत्तरमहुरा वा ? । तस्स आणा तिक्खा, पुनो पुच्छिउं न तीरति तओ दंडा दुहा काऊण दोसु वि पेसिया । गहिओ दो वि महुराओ । तओ वद्धावगो पेसिओ । तेन गंतूण राया वद्धाविओ-देव ! दो वि महुराओ गहियाओ । इयरो आगओ-देव ! अग्गमहिसीए पुत्तो जाओ । अन्नो आगतो देव! अमुगत्थ पदेसे विपुलो नही पायsो जातो । तओ उवरुवरिं कल्लाणनिवेयणेण हरिसवसविसप्पमाणहियओ परव्वसो जाओ । तओ हरिसं धरिउमचायंतो सयणि कुट्टइ, खंभे आहणइ, कुड्डे विद्दवइ, बहूणिय असमंजसाणि पलवति । तओ खरगेणामच्घेणं तमुवाएहिं पडिबोहिउकामेण खंभा कुड्डा बहू विद्दविया । रन्ना पुच्छियं केनेयं विद्दवियं ? । सो भणेइ-तुमेहिं । ततो 'मम सम्मुहमलीयमेयं भणति' रुट्टेणं रन्ना सो खरगो पाएण ताडितो । तओ संकेइयपुरिसेहिं उप्पाडिओ अन्नत्थ संगोवितो य। तओ कम्हि पओयणे समावडिए रन्ना पुच्छिओ- कत्थ अमञ्चो चिट्ठति ? । संकेइयपुरिसेहि य 'देव ! तुम्हं तेइयं ति । तओ समावत्थो जाओ ताहे संकेइयपुरिसेहिं विनत्तो- देव ! गवेसामि, जइ वि कयाइ चंडालेहिं रक्खिओ होज्जा । तओ गवेसिऊण आनिओ । राया संतुट्ठो । अमचेण सब्भावो कहिओ । तुट्ठेन विउला भोगा दिन्ना | साम्प्रतमक्षरार्थो विव्रियते-सातवाहनेन राज्ञा मथुराग्रहणे "दंडि"त्ति दण्डनायकस्याज्ञप्ति कृता । ततो दण्डाः सहसा 'कां मथुरां गृह्णीमः ?" इत्यपृष्ट्वा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा, ततो न भूयः प्रष्टुं शक्नुवन्ति । ततस्ते दण्डा द्विधा गताः, द्विधा विभज्य एके दक्षिण-मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः ।। सुतजन्म-मथुरापातन-निधिलाभानां युगपद् निवेदनायां हर्षवशात् सातवाहनो राजा 'दीप्तः' दीप्तचित्तोऽभवत् । दीप्तचित्ततया च 'इमानि' वक्ष्यमाणानि प्रलपन् शयनीय-स्तम्भकुड्यानि कुट्टयति ॥ तत्र यानि प्रलपति तान्याह
[भा. ६२४६] सचं भण गोदावरि !, पुव्वसमुद्देण साविया संती । साताहणकुलसरिसं, जति ते कूले कुलं अत्थि ।।
वृ- हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि यदि तव कूले सातवाहनकुलसध्शं कुलमस्ति ॥
[भा. ६२४७] उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया ।
समभारभरक्कंता, तेन न पल्हत्थए पुहवी ॥
वृ- 'उत्तरतः ' उत्तरस्यां दिशि हिमवान् गिरि दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥
[ भा. ६२४८ ] एयाणि य अन्त्राणि य, पलवियवं सो अनिच्छियव्वाइं । कुसलेण अमचेणं, खरगेणं सो उवाएणं ॥
वृ- 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् । किम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org