SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं - २०६, [भा. ६२४९ ] [भा. ६२४९ ] विद्दवितं केणं ति व, तुब्भेहिं पायतालणा खरए । कत्थत्ति मारिओ सो, दत्ति य दरिसिते भोगा ।। ३८३ वृ- ‘विद्रवितं' विनाशितं समस्तं स्तम्भ-कुड्यादि । राज्ञा पृष्टम् - केनेदं विनाशितम् ? । अमात्यः सम्मुखीभूय सरोषं निष्ठुरं वक्ति-युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता । तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम् - कुत्रामात्यो वर्तते ? । सङ्केतितपुरुषैरुक्तम्-देव! युष्मत्पादानामविनयकारी इति मारितः । ततः 'दुष्टं कृतं मया' इति प्रभूतं विसूरितवान् । स्वस्थीभूते च तस्मिन् सङ्केतितपुरुषैरमात्यस्य दर्शनं कारितम् । ततः सद्भावकनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ उक्त लौकिको दीप्तचित्तः । अथ तमेव लोकोत्तरिकमाह [ भा. ६२५० ] महज्झयण भत्त खीरे, कंबलग पडिग्गहे य फलए य । पासाए कप्पट्ठी, वातं काऊण वा दित्ता ॥ वृ- 'महाध्ययनं' पौण्डरीकादिकं दिवसेन पौरुष्या वा कयाचिद् मेधाविन्या क्षुल्लिकया आगमितम्, अथवा भक्तमुत्कृष्टं ल्ब्धवा 'नास्मिन् क्षेत्रे भक्तमीद्दशं केनापि लब्धपूर्वम्', यदि वा क्षीरं चतुर्जातकसम्मिश्रमवाप्य 'नैता शमुत्कृष्टं क्षीरं केनापि लभ्यते', यदि वा कम्बलरत्नमतीवोत्कृष्टम् अथवा विशिष्टवर्णादिकम् अथवा प्रासादे सर्वोत्कृष्टे उपाश्रयत्वेन लब्धे, “कप्पट्ठी "ति ईश्वरदुहितरि रूपवत्यां प्रज्ञादिगुणयुक्तायां लब्धायां प्रमोदते, प्रमोदभरवशाच्च दीप्तचित्ता भवति । एतेन “लाभमदेन वा मत्तः" इति पदं लोकोत्तरे योजितम् । अधुना “दुर्जयान् शत्रून् जित्वा" इति पदं योजयति-वादं वा परप्रवादिन्या दुर्जयया सह कृत्वा तां पराजित्यातिहर्षतः 'दीप्ता' दीप्तचित्ता भवति ॥ एतासु दीप्तचित्तासु यतनामाह [भा. ६२५१] दिवसेण पोरिसीए, तुम पढितं इमाए अद्धेणं । एतीए नत्थि गव्वो, दुम्मेहतरीए को तुज्झं ॥ वृ-दिवसेन पौरुष्या वा त्वया यत् पौण्डरीकादिकमध्ययनं पठितं तद् अनया दिवसस्य पौरुष्या • वाऽर्द्धेन पठितं तथाऽप्येतस्या नास्ति गर्व, तव पुनर्दुमेघस्तरकायाः को गर्व ?, नैव युक्त इति भावः, एतस्या अपि तव हीनप्रज्ञत्वात् ॥ [भा. ६२५२] तद्दव्वस्स दुगुछण, दिट्ठतो भावणा असरिसेणं । काऊ होति दित्ता, वादकरणे तत्थ जा ओमा ॥ वृ- यद् उत्कृष्टं कलमशाल्यादिकं भक्तं क्षीरं कम्बलरत्नादिकं वा तया लब्धं तस्य द्रव्यस्य जुगुप्सनं क्रियते, यथा-नेदमपि शोभनम्, अमुको वाऽस्य दोष इति । यदि वा 'दृष्टान्तः ' अन्येनापीदृशमानीतमिति प्रदर्शनं क्रियते । तस्य च दृष्टान्तस्य भावना 'असध्शेन' शतभागेन सहस्रभागेन वा या तस्याः सकाशाद् हीना तया कर्तव्या । या तु वादं कृत्वा दीप्ताऽभूत तस्याः प्रगुणीकरणायपूर्वं चरिकादिका प्रचण्डा परवादिनी प्रज्ञाप्यते, ततः सा तस्या वादभिमानिन्याः पुरतस्ततोऽप्यवमतरा या साध्वी तया वादकरणे पराजयं प्राप्यते, एवमपभ्राजिता सती प्रगुणीभवति । [भा. ६२५३] दुल्लभदव्वेदेसे, पडिसेहितगं अलद्धपुव्वं वा । आहारोवहि वसही, अक्खतजोनी व धूया वि ॥ वृ-यत्र देशे क्षीर- घृतादिकं द्रव्यं दुर्लभं तत्र तद् अन्यासामार्यिकाणां 'प्रतिषिद्धं' 'न प्रयच्छामः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy