________________
३३६
बृहत्कल्प-छेदसूत्रम् -३-५/१९२
[भा.६०२१] दिवसे दिवसे गहणं, पिट्ठमपिढे यहोइ जयणाए।
आगाढे निक्खिवणं, अपिट्ठ पिढे यजयणाए। वृ- यदा ग्लानार्थमालेपेन प्रयोजनं भवति तदा दिवसे दिवसे ग्रहणं विधेयम्। तत्र प्रथम पिष्टस्यपश्चादपिष्टस्यापि यतनया ग्रहणं कर्तव्य भवति । आगाढेच ग्लानत्वे आलेपस्य निक्षेपणं' परिवासनमपि कुर्यात्, तदप्यपिष्टस्य पिष्टस्य वायतनया कर्तव्यम्॥अथातकव्यत्यासंव्याख्याति[भा.६०२२] आगाढे अनागाढं, अनगाढे वा वि कुणइ आगाढं।
एवंतु विवच्चासं, कुणइ व वाए कफतिगिच्छं॥ वृ-आगाढे ग्लानत्वेऽनागाढं क्रियां करोति चतुर्गुरु । अनागाढे वा आगाढं करोति चतुर्लघु। यद्वा वाते चिकित्सनीये कफचिकित्सां करोति, उपलक्षणमिदम्, तेन कफे चिकित्सनीये वातं चिकित्सते इत्याद्यपि द्रष्टव्यम् । एष विपर्यासो मन्तव्यः ।।
अथ "सेसे लहुगा य गुरुगाय"त्ति पदं व्याचष्टे[भा.६०२३] अगिलाणो खलु सेसो, दव्वाईतिविहआवइजढो वा।
पच्छित्ते मग्गणया, परिवासिंतस्सिमा तस्स॥ वृ-'शेषो नाम' य आगाढोऽनागाढो वा ग्लानो न भवति, यो वा द्रव्य-क्षेत्र-कालापभेदात् त्रिविधया आपदा ‘जढः' मुक्त स शेष उच्यते । तस्य परिवासयत इतं प्रायश्चित्तमार्गणा॥ [भा.६०२४] फासुगमफासुगेवा, अचित्त चित्ते परित्तऽनंते वा।
असिनेह सिनेहगए, अनहाराऽऽहार लहु-गुरुगा॥ वृ-प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु । अचित्ते स्थाप्यमाने चतुर्लघु, सचित्ते चतुर्गुरु । परीत्ते चतुर्लघु, अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु, 'स्नेहगते' स्नेहावगाढे चतुर्गुरु । अनाहारे चतुर्लघु, आहारे चतुर्गुरु॥
मू. (१९३) नोकप्पइनिग्गंथाण वा निग्गंथीण वापारियासिएणं तिल्लेणवाघएणवा नवनीएण वा वसाए वा गायं अब्भंगित्तए वा मखित्तए वा; नन्नत्थ आगादेहिं रोगायंकेहि।
वृ-अस्य सम्बन्धमाह[भा.६०२५] ससिनेहो असिनेहो, दिज्जइ मक्खित्तु वा तगं देति ।
सव्वो वा नालिप्पइ, दुहतो वा मक्खणे सूया ॥ वृ-आलेपः स्नेहोऽस्नेहो वादीयते, ततो यथास्नेहेनम्रक्षणं क्रियतेन वातथाऽनेनाभिधीयते। यद्वा व्रणं म्रक्षित्वा 'तकम्' अनन्तरसूत्रोक्तमालेपं प्रयच्छन्ति । न वा सर्वोऽपिव्रण आलेप्यते। द्विधा वा म्रक्षणे सूचा कृता, व्रणोऽपि प्रक्ष्यते आलेपोऽपि प्रक्षितुं दीयत इति भावः ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते परिवासितेन तैलेन वा घृतेन वा नवनीतेन वा वसया वा गात्रम् 'अभ्यङ्गिंवा बहुकेन तैलादिना ‘प्रक्षितुंवा' स्वल्पेन तैलादिना, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः, तान् मुक्त्वा न कल्पते । दोषाश्चात्र त एव सञ्चयादयो मन्तव्याः ॥ आह-यद्येवं परिवासितेन न कल्पते प्रक्षितुंततस्तद्दिवसानीतेन कल्पिष्यते? सूरिराह[भा.६०२६] तद्दिवसमक्खणम्मिं, लहुओ मासो उ होइ बोधब्बो।
आणाइणो विराधन, धूलि सरक्खे य तसपाणा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org