________________
उद्देशकः ५, मूलं-१९३, [भा. ६०२६]
३३७ वृ-तद्दिवसानीतेनापि यदि म्रक्षयति तदा लघुमासः आज्ञादयश्च दोषाः, विराधनाचसंयमस्य भवति । तथाहि-प्रक्षिते गात्रे धूलिर्लगति, 'सरजस्को वा' सचित्तरजोरूपो वातेनोद्भूतो लगति, तेन चीवराणि मलिनीक्रियन्ते, तेषां धावने संयमविराधना, स्नेहगन्धेन वा त्रसप्राणिनो लगन्ति तेषां विराधना भवेत्॥ [भा.६०२७] धुवणा-ऽधुवणे दोसा, निसिभत्तं उप्पिलावणंचेव ।
बउसत्त समुइ तलिया, उव्वट्टणमाइ पलिमंथो॥ वृ-स्नेहेन मिलनीकृतानांचीवराणांगात्राणां वाधावना-ऽधावनयोरुभयोरपिदोषाः,तथाहियदि न धाव्यन्ते तदा निशिभक्तम्, अथ धाव्यन्ते ततः प्राणिनामुत्प्लावना भवेत्, उपकरणशरीरयोर्वकुशत्वं च भवति । “समुइ"त्ति स एव हेवाको लगति । म्रक्षिते च गात्रे पादयोर्माधूली लगिष्यतीतिकृत्वा तलिकाः पिनह्यति,तत्र गर्वोनिर्दिवतेत्यादयोदोषाः।यावच्च गात्रस्योद्वर्तनादिकं करोति तावत् सूत्रार्थपरिमन्थो भवति ॥ [भा.६०२८] तद्दिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिज्जा।
अद्धाणेणुव्वाए, वाय अरुग कच्छु जयणाए। वृ-तद्दिवसम्रक्षणेन जनिता एते दोषा दृष्टाः । द्वितीयपदे यथा म्रक्षयेत् तथाऽभिधीयतेअध्वगमनेनातीव 'उद्वातः' परिश्रान्तः, वातेन वा कटी गृहीता, 'अरु' व्रणंतद्वा शरीरे जातम्, 'कच्छुः' पामा तया वा कोऽपि गृहीतस्ततो यतनया म्रक्षयेदपि ।। तामेवाह[भा.६०२९] सनाईकयकज्जो, दुविउं मक्खेउ अच्छए अंतो।
परिपीय गोमयाई, उव्वट्टण धोव्वणा जयणा ॥ वृ-संज्ञागमनम् आदिशब्दा भिक्षागमनादिकंच कार्यं कृतं येन ससंज्ञादिकृतकार्य, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः । स यावन्मानं गात्रं म्रक्षणीयं तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो म्रक्षयति । म्रक्षयित्वा च प्रतिश्रयस्यान्तः तावदास्ते यावत् तेन गात्रेण तत् तैलादिकंम्रक्षणं परिपीतं भवति । ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लवना न भवति तथा धावनं कार्यम् ॥ [भा.६०३०] जह कारणे तद्दिवस, तु कप्पई तह भवेज्ज इयरं पि । -
आयरियवाहि वसभेहि पुच्छिए विज संदेसो।। वृ-यथा कारणेतद्दिवसानीतंम्रक्षणं कल्पते तथा 'इतरदपि' परिवासितंम्रक्षणं कारणे कल्पते। कथम् ? इति चेद् अत आह-आचार्यस्य कोऽपि व्याधिरुत्पन्नः, ततो वृषभैवैद्यः पूर्वोक्तेन विधिना प्रष्टव्यः । तेन च पृष्टेन ‘सन्देशः' उपदेशो दत्तो भवेत्, यथा-शतपाकादीनि तैलानि यदि भवन्ति ततश्चिकित्सा क्रियते ॥ततः किं कर्तव्यम् ? इत्याह[भा.६०३१] सयपाग सहस्सं वा, सयसहस्सं व हंस-मरुतेल्लं ।
दूराओ विय असई, परिवासिज्जा जयं धीरे॥ वृ-शतपाकं नामतैलं तद् उच्यते यद् औषधानां शतेन पच्यते, यद्वा एकेनाप्यौषधेन शतवाराः पक्वम् । एवं सहस्रपाकं शतसहस्रपाकंच मन्तव्यम् । हंसपाकं नाम हंसेन-औषध-सम्भारमृतेन [20] 22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org