SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ बृहत्कल्प-छेदसूत्रम् -३-५/१५२ सर्वेऽप्राप्तभूमिकाः॥ [भा.५८३८] खेत्तंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य । . चत्तारि अट्ठ बारसऽजग्ग सुव विगिचणाऽऽदियणा॥ - वृ-सङ्घडी श्रुत्वा क्षेत्रान्तः क्षेत्रबहिर्वा आगछेयुः । ये क्षेत्रान्तः सार्धक्रोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः । ये पनः क्षेत्रबहि योजनाद् योजनद्वयात् चतुर्योजनादष्टयोजनाद् यावद् द्वादशयोजनादागच्छन्तितेऽप्राप्तभूमिकाः। एतेसर्वेऽपि सङ्घड्यामतिमात्रंभुक्त्वा प्रदोषे “जग्ग"त्ति अकारप्रश्लेषाद् न जाग्रति, “सुव" त्ति वैरात्रिककालवेलायामपि 'स्वपन्ति' नोत्तिष्ठन्ते, “विगिचण"त्ति उद्गारमुद्गीर्यपरित्यन्ति, “आइयण"तितमेव 'आपिबन्ति' प्रत्यवगिलन्त।। . एतेषु चतुर्षु पदेषु इयमारोपणा[भा.५८३९] वत्थव्व जयणपत्ता, सुद्धा पणगंच भिन्नमासो य। तव-कालेहि विसिट्टा, अजतणमादी विउ विसिट्ठा॥ • वृ-सङ्खड्यप्रलोकिनोवास्तव्यायतनयाप्राप्ताश्चागन्तुकाः सङ्घड्यांयावद्वंमुक्त्वाप्रादोषिकी पौरुषीं न कुर्वन्ति ‘मा न जरिष्यति' इति कृत्वा तत आचार्यानापृच्छय स्वपन्तः शुद्धाः। त एव यदि वैरात्रिकं स्वाध्यायं न कुर्वन्ति तदा पञ्चरात्रिन्दिवानि तपोलघूनि कालगुरूणि । अथोद्वार आगतस्तं च यदि विविञ्चन्तिततो भिन्नमासस्तपोगुरु काललघुः । अथ तमुद्गारमापिबन्ति ततो मासलघु तपसा कालेन च गुरुकम् । येऽयतनाप्राप्ता ये च वास्तव्याः सङ्घडिप्रलोकिनः एते द्वयेऽपि सङ्खड्यांभुक्त्वा प्रादोषिकंस्वाध्यायंन कुर्वन्तिमासलघुद्वाभ्यामपि लघुकम् । वैरात्रिकं स्वाध्यायं न कुर्वन्ति मासलघुकालगुरुकम् । उद्गारमागतं परित्यजन्ति मासलघुतपोगुरुकम्। उद्गारं प्रत्यवगिलन्ति मासगुरु तपसा कलेन च गुरुकम्॥अत एवाह[भा.५८४०] तिसुलहुओ गुरुं एगो, तीसुय गुरुओ उ चउलहू अंते। तिसुचउलहुगा चउगुरु, तिसुचउगुरु छल्लहू अंते॥ वृ-'त्रिषु स्थानेषु' प्रादोषिकस्वाध्याय-वैरात्रिकाकरणोद्गारविवेचनरूपेषु लघुको मासः, 'एकस्मिन्’ चतुर्थे प्रत्यवगिलनाख्ये स्थाने मासगुरु । येऽन्यत्र गन्तुकामाः प्राप्तभूमिकाः सङ्घडिहेतोरीयोजनादागतास्तेषां प्रादोषिकस्वाध्यायाकरणादिषुत्रिषुस्थानेषुमासगुरु, अन्त्यस्थाने चतुर्लघु।येऽप्राप्तभूमिकाः सङ्घडिनिमित्तं योजनादागतास्तेषांपादोषिकादिषुत्रिषुपदेषु चतुर्लघु, अन्त्यपदे चतुर्गुरु। ये तु योजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे षडलघु ॥ [भा.५८४१] तिसु छल्लहुगा छग्गुरु, तिसु छग्गुरुगा य अंतिमे छेदो। छेदादी पारंची, बारसगा दीसुत चउक्कं ॥ __ वृ. ये योजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषु षडलघु, अन्त्यपदे षड्गुरु । ये योजनाष्टकादागतास्तेषां त्रिषु षड्गुरु, अन्त्यपदे च्छेदः । ये द्वादशयोजनादागतास्ते प्रादोषिकं स्वाध्यायं न कुर्वन्तिच्छेदः,आदिशब्दावैरात्रिकमकुर्वतां मूलम्, उद्गारंविविञ्चतामनवस्थाप्यम्, प्रत्यापिबतां पाराञ्चिकम् । “बारसगादी य चउक्कं" तिप्रतीपक्रमेण यानि द्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येकं प्रत्येकं प्रादोषिकादिचतुष्कं मन्तव्यम् । चतुर्वपि पदेषु तपोर्हाणि प्रायश्चित्तानि प्राग्वत् तपः-कालविशेषितानि कर्तव्यानि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy