________________
उद्देशक : ५, मूलं-१५२, [भा. ५८३२]
२९७ रात्रोवेकसिक्थस्यापि ग्रहणे चतुर्गुरवो भवन्ति । यच्च नियुक्तिगाथायामूर्ध्वदरग्रहणं कृतं तदेवं ज्ञापयति-अपवादपदे अवमे प्रत्यवगिलनमपि कल्पते ॥अत्र शिष्यः प्राह[भा.५८३३] रातो व दिवसतो वा, उग्गाले कत्थ संभवो होजा।
गिरिजन्नसंखडीए, अट्ठाहिय तोसलीए वा ॥ वृ- रात्रौ वा दिवसतो वा कुत्रोद्वारस्य सम्भवो भवेत् ? सूरिराह-गिरियज्ञादिषु सङ्खडीषु तोसलिविषये वा अष्टाहिकादिमहिमासु प्रमाणातिरिक्तं भुक्तानामुद्गारः सम्भवति ।।
तत्र प्रायश्चित्तमभिधित्सुः प्रस्तावनार्थं तावदिदमाह[भा.५८३४] अद्धाणे वत्थव्वा, पत्तमपत्ता यजोअण दूगेय ।
पत्ता य संखडिं जे, जतणमजतणाए ते दुविहा॥ वृ-ते सङ्घडीभोजिनः साधवो द्विविधाः-अध्वप्रतिपन्ना वास्तव्याश्च । तत्र ये वास्तव्यास्ते द्विविधाः-सङ्खड्याः प्रेक्षिणोऽप्रेक्षिणश्च ।अध्वप्रतिपन्ना वास्तव्याश्च।तत्रयेवास्तव्यास्ते द्विविधाःसङ्घडयाः प्रेक्षिणोऽप्रेक्षिणश्च अध्वप्रतिपन्ना अपिद्विधा-तत्रैवगन्तुकामाअन्यत्र वागन्तुकामाः। येऽन्यत्र गन्तुकामास्ते द्विधा-प्राप्तभूमिका अप्राप्त भूमिकाश्च ।प्राप्तभूमिका नाम-ये सङ्खडीग्रामस्य पार्श्वतो गन्तुकामाः सङ्खडीमभिधार्य अर्धयोजनादागच्छन्ति। अप्राप्तभूमिका नाम-ये योजनाद् योजनद्विकाद्उपलक्षणत्वाद्यावद्वादशयोजनेभ्यः सङ्खडीनिमित्तमागताः।येतत्रैव गन्तुकामाः सङ्खडीग्रामे प्राप्तास्ते 'द्विविधाः' द्विप्रकाराः- यतना प्राप्ता अयतनाप्राप्ताश्च । ये पदभेदमकुर्वन्तः सूत्रार्थपौरुष्यौ विदघानाआगतास्ते यतनाप्राप्ताः। येतुसङ्खडीं श्रुत्वासूत्रार्थीहापयन्तउत्सूकीभूता आगतास्ते अयतनाप्राप्ताः॥ [भा.५८३५] वत्थव्व जत्तणपत्ता एगगमा दो वि होति नेयव्वा ।
- अजयण वत्थव्वा, विय, संखडि पेही उ एक्कगमा॥ वृ-तत्र ये वास्तव्याः सङ्खड्यप्रलोकिनो ये च तत्रैव गन्तुकामा यतनाप्राप्ताः एते द्वयेऽपि प्रायश्चित्तचारणिकायामेकगमा भवन्ति ज्ञातव्याः।ये तुतत्रैव गन्तुकामा अयतनाप्राप्ताः ये च वास्तव्याः सङ्खडीप्रलोकिनः एते द्वयेऽपि चारणिकायामेकगमा भवन्ति ॥ “पत्ता य सङ्घडिं जे" इति पदं व्याख्याति[भा.५८३६] तत्थेव गंतुकामा, वोलेउमना व तं उवरिएणं ।
पदभेद अजयणाए, पडिच्छ उव्वत्त सुतभंगे। वृ. यत्र ग्रामे सङ्खडिस्तत्रैव ये गन्तुकामाः ये वा तस्य ग्रामस्योपरि वोलयितुमनसस्ते यदि स्वभावगतेः पदभेदं कुर्वन्ति, एकद्व्यादीनि वा दिनानि प्रतीक्षन्ते, अवेलायामुद्वर्तन्ते वा, सूत्रार्थपौरुषीभङ्गेन वा प्राप्ता भवन्ति तदाऽयतनाप्राप्ताः।इतरथा यतनाप्राप्ताः॥ प्राप्तभूमिकान् अप्राप्तभूमिकांश्च व्याख्याति[भा.५८३७] संखडिमभिधारेता, दुगाउया पत्तभूमिगा होति ।
. जोयणमाई अप्पत्तभूमिया बारस उ जाव। वृ- सङ्खडिग्रामपार्श्वतो ये गन्तुकामास्ते यदि सङ्खडीमभिधार्य गव्यतद्वयादागच्छन्ति तदा प्राप्तभूमिका भवन्ति । ये पुनर्योजनाद् योजनद्वयाद् यावद् द्वादशयोजनेभ्य आगच्छन्ति ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org