________________
१०६
व्याख्यातं त्रय इति पदम् । अथानुद्घातिकपदं व्याख्यातुमाहउग्घातमनुग्घाते, निक्खेवो छव्विहो उ कायव्वो नामं ठवणा दविए, खेत्ते काले य भावे य ॥
[भा. ४८९० ]
बृहत्कल्प-छेदसूत्रम् - ३-४/१११
वृ - इह ह्रस्वत्वाद् दीर्घत्ववद् उद्घातिकादनुद्धातिकस्य प्रसिद्धिरिति कृत्वा द्वयोरप्युद्धातिकाऽनुद्धातिकयोः षड्विधो निक्षेपः कर्त्तव्यः । तद्यथा - नामनि स्थापनायां द्रव्ये क्षेत्रे काले भावे चेति ॥ तत्र नाम-स्थापने गतार्थे । द्रव्यादिविषयमुद्धातिकमनुद्धातिकं च दर्शयति[भा. ४८९१] उग्घायमनुग्धाया, दव्वम्मि हलिद्दराग-किमिरागा । खेत्तम्मि कण्हभूमी, पत्थरभूमी य हलमादी ॥
वृ- 'द्रव्ये' द्रव्यत उद्धातिको हरिद्रारागः, सुखेनैवापनेतु शक्यत्वात्; अनुद्धातिकः कृमिरागः, अपनेतुमशक्यत्वात् । क्षेत्रत उद्धातिकं कृष्णभूमम्, अनुद्धातिका प्रस्तरभूमि । कुतः ? इत्याह"हलमादि"त्ति हल- कुलिकादिभिः कृष्णभूममुद्धातयितुं क्षोदयितुं शक्यम्, प्रस्तरभूमिरशक्या ।।
तथा
[ भा. ४८९२ ] कालम्मि संतर निरंतरं तु समयो य होतऽनुग्घातो । भव्वस्स अट्ठ पयडी, उग्घातिम एतरा इयरे ॥
वृ- कालत उद्धातिकं सान्तरं प्रायश्चित्तस्य दानम्, अनुद्धातकं निरन्तरदानम् । तुशब्दाद् लघुमासादिकमुद्धातिकम्, गुरुमासादिकमनुद्धातिकम् । अथवा कालतः समयोऽनुद्धातिको भवति, खण्डशः कर्तुमशक्यत्वात्; आवलिकादय उद्धातिकाः, खण्डयितुं शक्यत्वात् । भावत उद्धातिका भव्यस्याष्टौ कर्मप्रकृतयः, उद्घातयितुं शक्यत्वात् । 'इतरस्य' अभव्यस्य सत्कास्ता एव 'इतराः' अनुद्धातिकाः ॥ कुतः ? इति चेद् उच्यते
[भा. ४८९३] जेन खवणं करिस्सति, कम्माणं तारिसो अभव्वस्स । नय उप्पज्जइ भावो, ति भावो तस्सऽनुग्घातो ॥
वृ- 'येन' शुभाध्यवसायेन 'कर्ममां' ज्ञानावरणादीनां क्षपणमसौ करिष्यति स ता शो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुद्धातः, कर्मणामुद्धातं कर्तुमसमर्थः, अत एव तस्य कर्माणि अनुद्धातिकानि भण्यन्ते । अत्र च प्रायश्चित्तानुद्धातिकेनाधिकारः ॥ तच्च कुत्र भवति ? इत्याह[ भा. ४८९४]
हत्थे य कम्म मेहुण, रातीभत्ते य होतऽनुग्घाता । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥
वृ-हस्तकर्मकरणे मैथुनसेवने रात्रिभक्ते, एतेषु त्रिषु सूत्रोक्तपदेषु ‘अनुद्धातिकानि' गुरुकाणि प्रायश्चित्तानि भवन्ति । तत्र हस्तकर्मणि मासगुरुकम्, मैथुन - रात्रिभक्तयोश्चतुर्गुरुकाः । एतच्च प्रायश्चित्तं यदा यत्र स्थाने भवति तत् पुरस्ताद् व्यक्तीकरिष्यते । अथ 'एतेषां ' हस्तकर्मादीनां त्रयाणामपि पदानां 'प्रत्येकं' पृथक् प्ररूपणां वक्ष्ये ॥
यथाप्रतिज्ञातमेव निर्वाहयितुकामो हस्तकर्मप्ररूपणां तावदाह[भा. ४८९५]
नामं ठवणाहत्थो, दव्वहत्थो य भावहत्यो य । दुविहो य दव्वहत्थो, मूलगुणे उत्तरगुणे य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org