________________
उद्देशक : ४, मूलं - १११, [भा. ४८९५ ]
वृ- नामहस्तः स्थापनाहस्तो द्रव्यहस्तो भावहस्तश्चेति चतुर्धा हस्तः । तत्र नाम-स्थापनाहस्तौ गतार्थौ । द्रव्यहस्तो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्विविधो भवति, तद्यथा - मूलगुणनिर्वर्तित उत्तरगुणनिर्वर्तितश्च । तत्र यो जीवविप्रमुक्तस्य शरीरस्य हस्तः स मूलस्य जीवस्य गुणेन प्रयोगेण निर्वर्तित इति मूलगुणनिर्वर्तितः, यस्तु काष्ठ-चित्र-लेप्यकर्मादिषु हस्तः स उत्तरगुणनिर्वर्तित उच्यते ॥ अथ भावहस्तमाह
१०७
[भा. ४८९६ ] जीवोउ भावहत्थो, नेयव्वो होइ कम्मसंजुत्तो । बितियो वि य आदेसो, जो तस्स विजाणओ पुरिसो ॥
वृ- “जीवो”त्ति विभक्तिव्यत्ययाद् यो जीवस्य हस्तः 'कर्मसंयुक्तः ' आदाननिक्षेपादक्रियायुक्तः सन नोआगमतो भावहस्त उच्यते । द्वितीयोऽपि चात्रादेशः समस्ति-यः 'तस्य' हस्तस्य 'विज्ञायकः' तदुपयुक्तः पुरुषः सोऽपि भावहस्तः, आगमत इत्यर्थः । अत्र नो आगमतो भावहस्तेनाधिकारः ॥ अथ कर्मपदं व्याचष्टे
[भा. ४८९७]
नामं ठवणाकम्मं दव्वकम्मं च भाव कम्मं च । दव्वम्मि तुण्णदसिता, अधिकारो भावकम्मेणं ॥
वृ- नामकर्म स्थापनाकर्म द्रव्यकर्म भावकर्म चेति चतुर्धा कर्मणो निक्षेपः । तत्र नाम-स्थापने क्षुन्ने द्रव्यकर्म ज्ञशरीर भव्यशरीरव्यतिरिक्तं तुन्नणं वा दशिकानां बन्धनं वा, उपलक्षणमिदम्, तेन कुम्भाकर - रथकारादिगतमपि द्रव्यकर्म मन्तव्यम् । यद्वा व्यतिरिक्तं द्रव्यकर्म द्विधा- कर्मद्रव्यं नोकर्मद्रव्यं च । कर्मद्रव्यं ज्ञानावरणादिकर्मपर्यायमनापन्नाः कर्मवर्गणापुद्गलाः, यद्वा यद् ज्ञानावरणादिकं कर्म बद्धं न तावदुदयमागच्छति तत् कर्मद्रव्यम् । नोकर्मद्रव्यं आकुञ्चन प्रसारणोत्क्षेपणा-ऽवक्षेपण-गमनभेदात् पञ्चधा । भावकर्मद्विधा-आगमतो नोआगमतश्च । आगमतः 1 कर्मपदार्थज्ञाता उपयुक्तः, नोआगमतोऽष्टविधो ज्ञानावरणादिकर्मणामुदयः । एषां मध्येऽत्र कतमेनाधिकारः ? इति चेद् अत आह-अधिकारोऽत्र 'भावकर्मणा' मोहोदयलक्षणेन । शेषास्तु शिष्यमतिव्युत्पादनार्थं प्ररूपिताः । ततो भावहस्तेनयत् कर्म क्रियते तद् हस्तकरम भण्यते इति प्रक्रमः ।। अथ भावकर्मैव व्याचिख्यासुराह
[भा. ४८९८ ] दुविहं च भावकम्मं, असंकिलिट्टं च संकिलिट्ठे च । ठप्पं तु संकिलिडं, असंकिलिट्टं तु वोच्छामि ॥
वृ-द्विविधं च भावकर्म, तद्यथा-असंक्लिषं च संक्लिष्टं च । चशब्दो स्वगतानेकभेदसूचकौ । तत्र संक्लिष्टं 'स्थाप्यं' पश्चाद् वक्ष्यते । असंक्लिष्टं तु साम्प्रतमेव वक्ष्यामि ॥
यथाप्रतिज्ञातमेव प्रमाणयति[भा. ४८९९]
छेदने भेदने चेव, घंसणे पीसणे तहा ।
अभिघाते सिने य, काये खारे त्ति यावरे ॥
- छेदनं भेदनं चैव घर्षण पेषणं तथा अभिघातः स्नेहश्च कायः क्षार इति चापरः । एवमसंक्लिष्टस्य कर्मणोऽष्टौ भेदा भवन्ति ॥ एतानि च छेदनादीनि शुषिरे वा कुर्यादशुषिरे वा । पुनरेकैकं शुषिरच्छेदनादि द्विधा । कथम् ? इति चेद् उच्यते
[भा. ४९०० ]
एक्क्कं तं दुविहं, अनंतर परंपरं च नायव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org