________________
उद्देशक : ४, मूलं - १११, [भा. ४८८४]
१०५
मातृकाया एकतरं पदम् । सङ्घहैककं बहुत्वेऽप्येकवचनाभिधेयम्, यथा-शालिरिति वा ग्राम इति वा सङ्घ इति वा ॥ अथ पर्यायैककादीनि दर्शयति
[भा. ४८८५ ]
दुविकप्पं पजाए, आदिट्ठे जन्न-देवदत्तो त्ति । अनादिट्ठे एक्को त्तिय, पसत्थमियरं च भावम्मि ।।
वृ- पर्यायैककं 'द्विविकल्पं' द्विप्रकारम्, तद्यथा-आदिष्टमनादिष्टं च, विशेषरूपं सामान्यरूपं चेत्यर्थः । तत्रादिष्टं यज्ञदत्तो देवदत्त इत्यादि, अनादिष्टमेकः कोऽपि मनुष्य इत्यादि । अथवा पर्यायैककं वर्णादीनामन्यतम एकः पर्यायः । भावैककं द्विधा-आगमतो नोआगमतश्च । आगमती ज्ञाता उपयुक्तः । नोआगमतः प्रशस्तम् 'इतरच्च' अप्रशस्तमिति द्विधा । प्रशस्तमौपशमिकादीनामेकतरो भावः, अप्रशस्तमौदयिको भावः । अत्राप्रशस्तभावैककेनाधिकारः, हस्तकर्मादीनामप्रशस्तभावोदयादेव सम्भवात् ॥ अथ 'त्रिकस्य निक्षेपे कृते द्विकनिक्षेपः कृत एव भवति' इति मन्यमानस्त्रिरकनिक्षेपज्ञापनार्थमिदमाह
[भा. ४८८६] नामं ठवणा दविए, खेत्ते काले य गणण भावे य । एसो उ खलु तिगस्सा, निक्खेवो होइ सत्तविहो ।
वृ-नामत्रिकं स्थापनात्रिकं द्रव्यत्रिकं क्षेत्रत्रिकं कालत्रिकं गणनात्रिकं भावत्रिकं चेति । एष खलु त्रिकस्य निक्षेपः सप्तविधो भवति ।।
नाम-स्थापनात्रिके गतार्थे । द्रव्यत्रिकं ज्ञ भव्यशरीरव्यतिरिक्तं ज्ञापयति
[भा. ४८८७ ] दव्वे सच्चित्तादी, सच्चित्तं तत्थ होइ तिविहं तु । दुपय चतुप्पद अपदं, परूवणा तस्स कायव्वा ॥
वृ- द्रव्यत्रिकं सचित्ता-चित्त-मिश्रभेदात् त्रिधा । तत्र सचित्तत्रिकं भूयस्त्रिविधं भवति । तद्यथा-द्विपदत्रिकं चतुष्पदत्रिकं अपदत्रिकम् । तस्य च सप्रभेदस्यापि परूपणा कर्त्तव्या । सा च यथा सचित्तैककस्य कृता तथैवावगन्तव्या ॥
[भा. ४८८८ ] परमाणुमादियं खलु, अच्चित्तं मीसगं च मालादी । तिपदेस तदोगाढं, तिन्निव लोगा उ खेत्तम्मि ॥
वृ- परमाणुत्रयम्, आदिशब्दाद् द्विप्रदेशिकत्रयं यावदनन्तप्रदेशिकत्रयम्, एतदचित्तत्रिकं द्रष्टव्यम्। मिश्रत्रिकं तु मालात्रयं मन्तव्यम्, तत्र हि पुष्पाणि सचित्तानि सूत्रमचित्तमिति कृत्वा । आदिग्रहणेन सालङ्कारपुरुषत्रयमित्यादि गृह्यते । क्षेत्रत्रयम्-त्रय आकाशप्रदेशाः, "तदोगाढं" ति तेषु वा त्रिषु आकाशप्रदेशेषु अवगाढं द्रव्यं क्षेत्रत्रयम्, त्रयो वा लोकाः' अधोलोकतिर्यग्लोकोर्ध्वलोकलक्षणाः क्षेत्रत्रयमुच्यते ॥
[भा. ४८८९] तिसमय तट्ठितिगं वा, कालतिगं तीयमातिणो चेव ।
भावे पसत्थमितरं, एक्क्कं तत्थ तिविहं तु ॥
वृ- कालत्रयं त्रयः समयाः, “तट्ठितिगं व” त्ति त्रिसमयस्थितिकं वा द्रव्यं कालत्रयम्, अथवा अतीता-ऽनागत-वर्तमानकाला एव कालत्रयम्। भावत्रयं प्रशस्तम् 'इतरद्' अप्रशस्तं चेति द्विधा । पुनरेकैकं त्रिविधम् । तत्र ज्ञानं दर्शनं चारित्रं चेति प्रशस्तम्, मिथ्यात्वमज्ञानमविरतिश्चेत्यप्रशस्तम् । अविरतिरपि हस्तकर्म-मैथुन-रात्रिभक्तप्रति सेवाभेदादिह प्रस्तावे त्रिविधा । अत्र चानयैवाधिकारः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org