________________
१०४
बृहत्कल्प-छेदसूत्रम् -३-४/१११ साक्षादेव सूत्रेणाभिधीयते, एवं 'तेन वा' रोधकसूत्रेण समं ‘सन्दष्टको नाम' सध्शपूर्वापरसूत्रद्वयसन्दंशकगृहीत इव सम्बन्धो भवति ॥अथान्याचार्यपरिपाट्या सम्बन्धमेवाह[भा.४८८०] उवचियमंसा वतियानिवासिणो मा करेज्ज करकम्मं ।
इति सुत्ते आरंभो, आइल्लपदं च सूएइ॥ वृ-जिकानिवासिनः सन्तः साधव उपचितमांसाः साताः करकर्म मा कार्युरिति प्रस्तुतसूत्रविषय आरम्भः । अयं च सम्बन्धः “हत्थकम्मं करेमाणे" इतिलक्षणं अत्राद्यपदं .
सूचयति॥
[भा.४८८१] तह वि य अठायमाणे, तिरिक्खमाईसु होइ मेहुन्न।
निसिभत्तं गिरिजन्ने, अरुणम्मि व दुद्धमाईयं ॥ वृ-'तथापि' करकर्मणाऽप्यतिष्ठतिपरिणामेतिरश्चादिषुमैथुनप्रतिसेवनमपिकदाचिद्भवेद् इति द्वितीयपदसूचा । व्रजिकायां च गिरियज्ञादौ सायाह्नसङ्खड्यां निशिभक्तं प्रतिसेवेत अरुणोदयवेलायां वा दुग्धादिकं गृह्णीयादिति तृतीयपदसूचा॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'त्रयः' त्रिसङ्ख्याकाः ‘अनुद्धातिकाः' उद्धातो नाम"अद्धेण छिन्नसेसं" इत्यादिविधिना भागपातःसान्तरदानंवाउद्धातः,सविद्यते येषुतेउद्घातिकाः, तद्विपरीताअनुद्धातिकाः ‘प्रज्ञप्ताः' तीर्थकरादिभिःप्ररूपिताः। तद्यथा' इत्युपप्रदर्शनार्थी हन्ति हसति वा मुखमावृत्यानेनेति हस्तः-शरीरैकदेशो निक्षेपाऽऽदानादिसमर्थः, तेन यत् कर्म क्रियते तद् हस्तकर्म, तत् कुर्वन् । तथा स्त्री-पुंसयुग्मं मिथुनमुच्यते, तस्य भावः कर्म वा मैथुनम्, तत् प्रतिसेवमानः। तथा रात्रौ भोजनम्-अशनादिकंभुनानः । एष सूत्रार्थ ।। अथ नियुक्तिविस्तरमाह[भा.४८८२] एक्कस्स ऊ अभावे, कतो तिगं तेन एक्कगस्सेव।
निक्खेवं काऊणं, निष्फत्ती होइ तिण्हं तु॥ वृ-इह त्रयाणां सङ्ख्या प्रथमतो वक्तव्या।तत्रैकस्याभावे कुतस्त्रिकंसम्भवति? तेन कारणेन प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां निक्षेपस्य निष्पत्ति कर्त्तव्या भवति॥
यथाप्रतिज्ञातमेव करोति[भा.४८८३] नामं ठवणा दविए, मातुगपद संगहेक्कए चेव ।
पज्जव भावे य तहा, सत्तेएक्केवगा होति॥ वृ-नामैककं स्थापनैककं द्रव्यैककंमातृकापदैककं सङ्गहैककंपर्यवेककंभावककम् । एतानि सप्तैककानि भवन्ति ॥ तत्र नाम-स्थापने क्षुण्णे।द्रव्यैककंपुनर्जशरीर-भव्यशरीरव्यतिरिक्तमाह[भा.४८८४] दव्वे तिविहं मादुकपदम्मि उप्पन्न-भूय-विगतादी।
सालि त्ति व गामो त्ति व, संघो त्ति व संगहेकंतु॥ वृ-'द्रव्ये' द्रव्यविषयंएककंत्रिविधम्, तद्यथा-सचित्तमचित्तं मिश्रंच।सचित्तंपुनरपि द्विपदचतुष्पदा-ऽपदभेदात् त्रिधा । तत्र द्विपदैककं एकः पुरुषः, चतुष्पदैककं एकोऽश्व एको हस्ती, अपदैककं एको वृक्ष इत्यादि । अचित्तैककं एकः परमाणुः एकमाभरणम् । मिश्रककं सालङ्कार एकः पुरुषः । मातृकापदे तु चिन्त्यमाने एककं उत्पन्न-भूत-विगतादिकम्, “उप्पने इवा, विगते इवा, धुवे इवा'' इत्यस्य पदत्रयस्यैकतरमित्यर्थः । आदिशब्दाद् अकाराद्यक्षरात्मिकाया वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org