SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं- ११०, [भा. ४८७५ ] [मा. ४८७६ ] नागरगो संवट्टो, अनोग्गहो जत्थ वा पविट्ठो सो । सेसम्म उग्गहो जो, गमो उ सत्यम्मि सो इहई || वृ- 'नागरकः' नगरसम्बन्धी संवत्त' 'अनवग्रहः' नतत्रावग्रहो भवति । 'यत्र वा' ग्रामादौ स नागरकः संवर्त्तः प्रविष्टस्तत्रापि नावग्रहः । शेषः- ग्रामेयकसंवर्त्तस्तत्रावग्रहो भवति परं य एव सार्थे गम उक्तः स एवेह द्रष्टव्यः ॥ चूर्णीवचोभिः फलकैः सुयोजितैर्गुरुप्रतिष्ठानयुतैः ससूत्रकैः । तृतीयकोद्देशकवारिधिं सतां, तरी तरीतुं विवृतिः कृता मया ॥ उद्देशकः-३ समाप्तः १०३ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे तृतीय उद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्तियुक्तं ) संघदास गणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । उद्देशक:-४ व्याख्यातस्तृतीय उद्देशकः, सम्प्रति चतुर्थ आरभ्यते । तस्य चेदमादिसूत्रम्मू. (999) तओ अनुग्घाइया पन्नत्ता, तं जहा - हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुंजमाणे ॥ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इति चिन्तायां सम्बन्धविधिमेव तावदुपदर्शयति[भा. ४८७७] सुत्ते सुत्तं बज्झति, अंतिमपुष्फे व बज्झती तंतू । इय सुत्तातो सुत्तं, गहंति अत्थातो सुत्तं वा ॥ वृ- इह सम्बन्धोऽनेकधा भवति यथा पुष्पेषु ग्रथ्यमानेषु यदा 'सूत्रम् ' तन्तुर्निष्ठितो भवति तदा तत्रैव सूत्रेऽपरं सूत्रं बध्यते, अन्तिमपुष्पे वा तन्तुर्बध्यते, बद्धवा च पुष्पाणि ग्रथ्यन्ते; एवं यस्मिन्नन्तिमसूत्रे उद्देशको निष्ठितो भवति ततः सूत्रादपरस्योद्देशकस्य यद् आद्यं सूत्रं तद् यदि सध्शाधिकारिकं भवति तदा सूत्रात् सूत्रं ग्रन्थन्तीत्युच्यते । क्वापि पुनरर्थादपरसूत्रं सम्बध्यते । वाशब्दोपादानात् क्वाप्यर्थादर्थस्य सम्बन्धः क्रियते । तत्रार्थात् सूत्रसम्बन्धं तावद् दर्शयति[भा. ४८७८ ] घोसो त्ति गोउलं ति य, एगठ्ठे तत्थ संवसं कोई । खीरादिविंधियतनू, मा कम्मं कुज्ज आरंभो ॥ वृ घोष इकति गोकुलमिति चैकार्थम् । तत्रतृतीयोद्देशकान्त्यसूत्राभिहितचल क्षेत्रद्वारावसरायाते गोकुले संवसन् कश्चित् साधुः 'क्षीरादिबृंहिततनुः' प्रचुरदुग्ध-दध्याद्युपचितशरीरो मोहोद्भवेन मा हस्तकर्म कुर्यात्, उपलक्षणमिदम्, तेने मा वा मैथुनं प्रतिसेवेत, अतस्तद्वारणार्थमादिसूत्रस्यारम्भः क्रियते ॥ अथ सूत्रात् सूत्रसम्बन्धमाह [भा. ४८७९] ट्ठाऽनंतरसुत्ते, वृत्तमनुग्घाइयं तु पच्छित्तं । तेन व सह संबंधो, एसो संदट्ठओ नामं ॥ वृ-तृतीयोद्देशके यदधस्तादन्त्यसूत्रं तस्य 'अन्तरसूत्रे' रोधकाख्ये यो बहिर्भिक्षाचर्यां गतस्तां रजनीं तत्रैव बहिरावसति तस्यानुद्धातिकं प्रायश्चित्तं साक्षादेवोक्तम्, अत्रापि देवानुद्धातिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy