SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उद्देशकः६, मूलं-२१५, [भा. ६४१०] ४३१ सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तंसव्वनयविसुद्धं, जंचरण-गुणद्वितो साहू॥ सर्वेषामपि मूलनयानाम अपिशब्दात् तद्भेदानामपि नयानां द्रव्यास्तिकादीनाम् 'बहुविधवक्तव्यता' 'सामान्यमेव, विशेषा एव, उभयमेव वा परस्परनिरपेक्षम्' इत्यादिरूपाम्, अथवा 'नामादिनयानां मध्ये को नयः कं साधुमिच्छति ?' इत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसम्मतंवचनम् यत् 'चरण-गुणस्थितः' चारित्र-ज्ञानस्थितः साधुः, यस्मात् सर्वेऽपि नया भावनिक्षेपमिच्छन्तीति गतं नयद्वारम् ।। ___ नन्दीसन्दर्मभूले सुदृढतरमहापीठिकासन्कन्धबन्धे, तुङ्गोद्देशाख्यशाखे दल-कुसुमसमैः सूत्र-नियुक्तिवाक्यैः । सान्दै भाष्यार्थसार्थामृतफलकलिते कल्पकल्पद्रुमेऽस्मि नाक्रष्टुं षष्ठशाखाफलनिवहमसावकुटीवाऽस्तु टीका ।। मुनि दीपरलसागरेण संशोधिता सम्पादिता बृहत्कल्पस सूत्रस्य (भद्रबाहु स्वामि रचिता स्वोपज्ञ नियुक्ति युक्त) संघदासगणि विरचितं भाष्यं एवंमलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता। ३५ द्वीतीयं छेदसूत्रं बृहत्कल्पं समाप्तम् | अथ प्रशस्तिःसौवर्णा विविधार्थरत्नकलिता एते षडुद्देशकाः, श्रीकल्पेऽर्थनिधौ मताः सुकशला दौर्गत्यदुःखापहे। दृष्ट्वा चूर्णिसुबीजकाक्षरततिं कुश्याऽथ गुर्वाज्ञया, खानं खानमयी मया स्व-परयोरर्थे स्फुटार्थीकृताः। श्रीकल्पसूत्रममृतं विबुधोपयोग योग्यं जरा-मरणदारुणदुःखहारि। येनोद्धृतं मतिमथा मथिताच्छुताब्धेः, श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै । येनेदं कल्पसूत्र कमलमुकुलवत् कोमलं मञ्जलाभि गोभिर्दोषापहामि स्फुटविषयविभागस्य सन्दर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्गारसारं वितेने, तंनिसम्बन्धबन्धुंनुत मुनिमधुपाः ! भास्करं भाष्यकारम् ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगम्भीरार्थभाष्यपरिकलिते।। विषमपदविवरणकृते, श्रीचूर्णिकृते नमः कृतिने ॥ श्रुतदेवताप्रसादादमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन, प्राप्नुयां बोधिमहममलाम्। गम-नयगभीरनीरश्चित्रोत्सराग-ऽपवादवादोर्मि । युक्तिशतरत्नम्यो जैनागमजलनिधिर्जयति॥ श्रीजैनशासननभस्तलतिग्मरश्मि, श्रीसद्मचान्द्रकुलपद्मविकाशकारी। स्वज्योतिरावृतदिगम्बरडम्बरोऽभूत्, श्रीमान धनेश्वहरुगुरु प्रथितः पृथिव्याम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy