________________
४३०
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात्॥ तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम्, आगमेऽपितथाप्रतिपादनात् । उक्तं
पढमं नाणं ततो दया, एवं चिट्ठइ सव्वसंजए।
अन्नाणी किं काही?, किंवा नाही यछेय-पावगं?॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा। तथा चागमः
गीयत्थो य विहारो, बीतो गीयत्थमीसतो भणितो।
___एतो तइय विहारो, नाणुनाओ जिनवरेहिं॥ न खलु अन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यते इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैवप्रतिपत्तव्यम्, यस्मादर्हतोऽपि भवाम्भोघिटस्थस्य दीक्षाप्रतिपत्रस्योत्कृष्टचरणवतोऽपिन तावद् अपवर्गप्राप्तिरुपजायते यावद् जीवा-ऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञनं नोत्पन्नमिति । तस्माद् ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । “इति जो उवएसो सो नओ नाम" 'इति' एवम्-उक्तेन प्रकारेणय उपदेशो ज्ञानप्राधान्यख्यापनपरःसनयो नाम, ज्ञाननय इत्यर्थः। उक्तोज्ञाननयः । सम्प्रति क्रियानयावसरः,तद्दर्शनंचेदम्-क्रियैवएहिका-ऽऽमुष्मिकफलप्राप्तिकारमं प्रधानम्, युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये गाथामाह-"नायम्मि गिण्हियव्वे०" इत्यादि । अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चार्थे ऐहका-ऽऽमुष्मिकफलप्राप्तयर्थिनायतितव्यमेव। यस्मात् प्रवृत्त्यादिलक्षणप्रयलव्यतिरेकेण ज्ञानवतोऽपि नाभिलषितार्थावाप्तिरुपजायते। तथा चोक्तमन्यैरपि
क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यतः स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ।। आमुष्मिकफलार्थिनाऽपि क्रियैव कर्तव्या, तथाच भगवद्वचनमप्येवमेव व्यवस्थितम्।यत उक्तम्
चेइय कुल गण संघे, आयरियाणंच पवयणं सुए य।
___ सव्वेसु वि तेन कयं, तव-संजममुज्जमंतेनं ।। इतश्चैवमङ्गीकर्तव्यम्, यस्मात्तीर्थकर गणधरैः क्रियाविकलानांज्ञानमपिविफलमेवोक्तमातथाचागमः
सुबहु पि सुमहीयं, किं काही चरणविप्पहीनस्स?।
___अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि॥ शिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनन्तरत्वात् क्षायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतो भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्यवाप्ति सम्भवति यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोच्चारणकालमात्रा सर्वसंवरूपाचारित्रक्रिया नावाप्यते, ततः क्रियैवप्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणमिति। “इतिजोउवदेसोसोनओनाम" 'इति एवम्-उक्तेन प्रकारेण य उपदेशः क्रियाप्राधान्यख्यापनरपः सनयो नाम, क्रियानय इत्यर्थः । उक्तः क्रियानयः॥ इत्यं ज्ञान-क्रियानयस्वरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापन्नः सन् आह-किमत्र तत्त्वम् ? पक्षद्वयेऽपि युक्तिसम्भवात्। आचार्य आहJain Education International
For Private & Personal Use Only
For
www.jainelibrary.org