________________
३६८
बृहत्कल्प-छेदसूत्रम् - ३-६/२०१
प्रज्ञापनीयः
:-मा हस्तप्रक्षालनं कार्षी। एवमुक्ते यद्यसावशौचवादी तदा हस्तं हस्तेनैव प्रोञ्छति प्रस्फोटयति वा ॥ अथ शौचवादी ततः
[भा. ६१७५] जइ सीसम्मि न पुंछति, तनु पोत्तेसु व न वा वि पप्फोडे । तोसि अन्नेस असति, दवं दलंति मा वोदगं घाते ॥
- यदि हस्तं शीर्षे वा तनौ वा 'पोतेषु वा' वस्त्रषु न प्रोञ्छति न वा प्रस्फोटयति 'गृहे गतो हस्तं प्रक्षालयिष्यामि' इति कृत्वा, ततः “से” तस्य अन्येषाम् 'असति' अभावे प्राशुकमात्मीयं द्रवं हस्तधावनाय ददति, मा 'उदकम् ' अप्कायं घातयेदिति कृत्वा । गृहस्थानामभावे परतीर्थिकेनापि कारयन् एवमेव पश्चात्कृतादिक्रमेण कारयेत् । तेषामभावे गृहस्थाभिरपि कारयेत् ॥
कथम् ? इत्याह
[भा. ६१७६ ] माया भगिनि धूया, अज्जिय नत्तीय सेस तिविधाओ । आगाढे कारणम्मिं, कुसलेहिं दोहि कायव्वं ॥
वृ- या तस्य निर्ग्रन्थ माता भगिनी दुहिता वा 'अर्यिका वा' पितामही 'नप्त का वा' पौत्री तया कारितव्यम् । एतासामभावे याः 'शेषाः' अनालब्धाः स्त्रयस्ताभिरपि कारयेत् । ताश्च त्रिविधाःस्थविरा मध्यमास्तरुण्यश्च । तत्र प्रथमं स्थविरया, ततो मध्यमया, ततस्तरुण्याऽपि कारयितव्यम् । आगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्तव्यम्, कारयितव्यमित्यर्थः ॥
के पुनस्ते द्वे ? इत्याह
[भा. ६१७७] गिहि अन्नतित्थि पुरिसा, इत्थी वि य गिहिणि अन्नतित्थीया । संबंधि एतरा वा, वइणी एमेव दो एते ॥
वृ-गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयम्, गृहस्थी अन्यतीर्थिकी चेति वा द्वयम्, सम्बन्धिनी 'इतरा वा' असम्बन्धिनी व्रतिनी एवं वा द्वयम् । एतेषां द्विकानामन्यतरेण कुशलेन आगाढे कारणे कारयितव्यम् ।। आह- 'श्रमणानामभावे सूत्रनिपातो भवति' इत्युक्तम्, कदा पुनरसौ साधूनामभावो भवति ? इत्याह
[भा. ६१७८] तं पुन सुन्नार, दुट्ठारने व अकुसलेहिं वा । कुसले वा दुरत्थे, न चएइ पदं पि गंतुं जे ॥
वृ- 'साधवो न भवन्ति' इति यदुक्तं तत् पुनरित्यं सम्भवति 'शून्यारण्यं' ग्रामादिभिर्विरहिता अटवी, 'दुष्टारण्यं वा' व्याघ्र - सिंहादिभयाकुलम्, एतयोः साधूनामभावो भवेत् । उपलक्षणत्वाद् अशिवादिभिः कारणैरेकाकी सञ्जत इत्यपि गृह्यते । एषा साधूनामसदसत्ता । सदसत्ता तु सन्ति साधवः परमकुशलाः-कण्टकोद्धरणेऽदक्षाः, अथव यः कुशलः सः 'दूरस्थः' दूरे वर्तते, सच कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति ततः पूर्वोक्ता यतना कर्तव्या ॥
अथ सामान्येन यतनामाह
[भा. ६१७९] परपक्ख पुरिस गिहिणी, असोय-कुसलाण मोत्तु पडिवक्खे । पुरिस जयंत मणुन्ने, होंति सपक्खेतरा वा तू ॥
वृ- इहप्रथमं पश्चार्द्ध व्याख्याय ततः पूर्वार्द्धव्याख्यास्यते । ये 'यतमानाः' संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत्, तदभावे अमनोज्ञैः - असाम्भोगिकैः, तदभावे ये इतरे- पार्श्वस्थादयस्तैर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org