________________
उद्देशक : ६, मूलं-२०१, [भा. ६१७९]
३६९
कारयेत् । एषा स्वपक्षे यतना भणिता । अथैष स्वपक्षो न प्राप्यते ततः “परपक्खे”त्यादि पूर्वार्द्धम्‘परपक्षे' गृहस्था-ऽन्यतीर्थिकरूपे प्रथमं पुरुषैः, ततः 'गेहिनीभिः' स्त्रभिरपि कारयेत्, तत्राप्यशौचवादिभि कुशलैश्च कारापणयम् । अत एवाह-अशौचवादि-कुशलानां 'प्रतिपक्षाः ' ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम् । अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत्, तत्रापि प्रथमं मातृभगिन्यादिभिर्नालब्धाभि, तद्भावेऽसम्बन्धिनीभिरि स्थविरा-मध्यमातरुणीभिर्यथाक्रमं कारयेत् ॥ कथं पुनस्तया कण्टक उद्धरणीयः ? इत्याहसल्लुद्धर नक्खेण व, अच्छिव वत्थंतरं व इत्थीसु । भूमी - कट्ठ-तलोरुसु, काऊण सुसंवुडा दो वि ॥
[ भा. ६१८० ]
वृ- शल्योद्धरणेन नखेन वा पादमस्पृशन्ती कण्टकमुद्धरति । अथैवं न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा ताले पा ऊरौ वा कृत्वा उद्धरेत् । 'द्वावपि च' संयती - संयतौ सुसंवृतावुपविशतः । एषः ‘स्त्रीषु' कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः ॥
[भा. ६१८१] एमेव य अच्छिम्मिं, चंपादिट्ठतो नवरि नाणत्तं । निग्गंथीण तहेव य, नवरिं तु असंवुडा काई ॥
वृ- एवमेव अक्षिसूत्रे ऽपि सर्वमपि चक्तव्यम् । 'नवरं' नानात्वं चम्पाध्ष्टान्तोऽत्र भवति । यथा किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतं तथाऽन्यस्यापि साधोश्चक्षुषि प्रविष्टस्य तृमादेः कारणे निर्ग्रथ्याऽपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम् । नवरम् - काचिदसंवृता भवति ततः प्रतिगमनादयः पूर्वोक्ता दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासांम प्रागुक्तविधिना कण्टकादिकमुद्धरेत् ॥
मू. (२०२) निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खुलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥
मू. (२०३) निग्गंथे निग्गंथिं सेयंसि वा पंकंसि वा पनगंसि वा उदगंसि वा ओकसमाणिं वा ओवुज्झमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥
मू. (२०४] निग्गंथे निग्गंथि नावं आरुभमाणिं वा ओरुभमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कमइ ॥
वृ- अस्य सूत्रत्रयस्य सम्बन्धमाह
[ भा. ६१८२ ] सो पुन दुग्गे लग्गेज्ज कंटओ लोयणम्मि वा कणुगं ।
इति दुग्गसुत्तजोगो, थला जलं चेयरे दुविहे ॥
वृ-यः पूर्वसूत्रे पादप्रविष्टः कम्टको लोचने वा कणुकं प्रविष्टमुक्तं स कण्टकस्तच्च कणुकं दुर्गे गच्छतः प्रायो लगेत्, अतो दुर्गसूत्रमारभ्यते । 'इति' एष दुर्गसूत्रस्य योगः- सम्बन्धः । दुर्गं चस्थलं ततः स्थलाज्जलं भवतीति कृत्वा दुर्गसूत्रानन्तरम् 'इतरस्मिन्' जलप्रतिबद्धे 'द्विविधे' पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थो निर्ग्रन्थीं दुर्गे वा विषमे वा पर्वते वा "पक्खुलमाणि वत्ति प्रकर्षेण स्खलद्गत्या गच्छन्तीम्, भूमावसम्प्राप्तां वा पतन्तीम्, पतितुकामामित्यर्थः । “पवडमाणि व’त्ति प्कर्षेण भूमौ सर्वैरपि गात्रैः पतन्तीम् ।
20 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org