________________
३७०
बृहत्कल्प-छेदसूत्रम् -३-६/२०४
सा
॥
"गिण्हमाणे व"त्ति बाह्वादावङ्गे गृह्णन् वा, "अवलंबमाणे व"त्ति अवलम्बमानो वा' बाह्नादौ गृहीत्वा धारयन्; अथवा 'गृह्णन्' सर्वाङ्गीणां धारयन्, ‘अवलम्बमानः' देशतः करेण गृह्णन्, साहयन्नित्यर्थः । नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमसूत्रम्॥
द्वितीयसूत्रमप्येवमेव । नवरम्-सेको नाम-पङ्केपनके वासजले यत्र निमज्जयते तत्र वा, पङ्कःकर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणिं व"त्ति 'अपकसन्तीं वा' पङ्क-पनकयोः परिहसन्तीं “ओवुज्झमाणिं व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो वा नातिकामति ॥ तृतीयसूत्रेनिर्ग्रन्थीमेवनावमारोहन्ती वा अवरोहन्तींवा गृह्णानोवाअवलम्बमानोवा नातिकामति इति सूत्रत्रयार्थ ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे[भा.६१८३] तिविहं च होति दुग्गं, रुक्खे सावय मनुस्सदुग्गंच।
निकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा॥ वृ-त्रिविधंच भवतिदुर्गम्, तद्यथा-वृक्षदुर्ग श्वापददुर्गं मनुष्यदुर्गंच।यवृक्षरतीवगहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम्।यत्र व्याघ्र-सिंहादीनां भयंतत्श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते व तदा चतुर्गुरु, आज्ञादयश्च दोषाः। [भा.६१८४] मिच्छत्ते सतिकरणं, विराधना फास भावसंबंधो।
पडिगमणादी दोसा, भुत्ता-ऽभुत्ते व नेयव्वा । वृ-निर्ग्रन्थीं गृह्णन्तं तं दृष्ट्वा कोऽपि मिथ्यात्वं गच्छेत्-अहो! मायाविनोऽमी, अन्य वदन्ति अन्यच्च कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना ।स्पर्शतश्चभावसम्बन्धो भवति। ततः प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥अथ विषमपदं व्याख्याति[भा.६१८५] तिविहं च होति विसमं, भूमिं सावय मनुस्सविसमंच।
- तम्मि विसो चेव गमो, नावोदग सेय जतणाए॥ वृ-त्रिविधं च भवति विषमम्-भूमिविषमं श्वापदविषमं मनुष्यविषमंच । भूमिविषमं नामगर्तापाषाणाद्याकुलो भूभागः, श्वापद-मनुष्यविषमे तु श्वापद-मनुष्यदुर्गवद् मन्तव्ये । अत्र भूमविषमेणाधिकारः । पर्वतपदं तु प्रतीत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा निर्ग्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावुदके सेकादौ च' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । “जयणाए"त्ति कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते॥
अथ प्रस्खलन-प्रपतनपदे व्याचष्टे[भा.६१८६] भूमीए असंपत्तं, पत्तं वा हत्थ-जानुगादीहिं ।
पक्खुलणं नायव्वं, पवडण भूमीय गत्तेहिं ।। वृ-भूमावसम्प्राप्तं हस्त-जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत्प्रपतनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org