________________
उद्देश : ६, मूलं - २०४, [भा. ६१८७ ]
[भा. ६१८७ ] अहवा विदुग्ग विसमे, थद्धं भीतं व गीत थेरो तु । सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो ॥
वृ- 'अथवा' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीयपदे दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थ स्थविरः सिचयेन-वस्त्रणान्तिताम् इतरां वा गृह्णन् निर्दोषो भवति ॥ व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति
[भा. ६१८८ ] पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुन सजलो सेओ, सीतिज्जति जत्थ दुविहे वी ॥
वृ- पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः 'द्विविधेऽपि ' पङ्के पनके वा "सीइज्जति” निमज्जते स पुनः सजलः सेक उच्यते ॥
[भा. ६१८९ ] पंक-पनएसु नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि निमज्जणता, सजले सेए सिया दो वि ॥
वृ- पङ्क - पनकयोर्नियमाद् 'अपकसनं' ह्रसनं भवति । सेके तु "वुज्झणं" 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके 'द्वे अपि' अपवहन - निमज्जने स्याताम् ॥ अथ तृतीयं नौसूत्रं व्याख्याति
[भा. ६१९०] ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो । छेदो व दुवेगयरे, अतपिल्लण भाव मिच्छत्तं ॥
वृ- कारणे निर्ग्रन्थीं नावम् 'अवतारयन्' आरोपयन् वा यद्यास्तरणं वपुर्ग्रहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणेच ‘भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत् ॥ एते नावुदके निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाह
[ भा. ६१९१]
३७१
अंतोजले वि एवं, गुज्झंगप्फास इच्छऽनिच्छंते ।
मुज्जव आयत्ता, जा होउ करेतु वा हावे ॥
वृ- 'अन्तर्जलेऽपि ' जलाभ्यन्तरेऽपि गच्छन्तीं गृह्णत एवमेव दोषा मन्तव्याः । तथा गुहाङ्गस्पर्शे मोह उदियात्, उदितेच मोहे यदि इच्छति नेच्छति वा तत उभयथाऽपि दोषाः । यद्वा स उदीर्णमोहस्तां जलमध्ये मुञ्चेत्, आयत्ता यस्माद् भवंतु करोतु वा 'हावान्' मुखविकारानिति । कारणे तु नावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृह्णीयाद् अवलम्बेत वा ॥ अथ ग्रहणा - Sवलम्बपदे व्याख्याति
[भा. ६१९२]
सव्वंगियं तु गहणं, करेहि अवलंबणेगदेसम्मि । जह सुत्तं तासु कयं, तहेव वतिणो वि वतिणीए ।
वृ-ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशेबाह्यादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति ?यथा निर्ग्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम्; तथैवार्थत इदं द्रष्टव्यम्- 'व्रतिनोऽपि' साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपततो व्रतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् । कया पुनर्यतनया ? इति चेद् अत आह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International