________________
बृहत्कल्प-छेदसूत्रम् - ३-६/२०४
३७२
[भा. ६१९३] जुगलं गिलाणगं वा, असहुं अन्त्रेण वा वि अतरंतं । गोवालकंचुगादी, सारक्खण नालबद्धादी ।।
वृ- 'युगलं नाम' बालो वृद्धश्च तद्वा, अपरं वा ग्लानम् अत एव 'असहिष्णुं' दुर्गादिषु गन्तुमशक्नुवन्तम्, 'अन्येन वा' ग्लानत्ववर्जेन कारणेन 'अतरन्तम्' अशक्तम्, गोपालकञ्चुकादिपरिधानपुरस्सरं नालबद्धा संयती, आदिग्रहणेनानालबद्धाऽपि संरक्षति, गृह्णाति अवलम्बते वा इत्यर्थः ॥ मू. (२०५) खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ।। वृ- अस्य सूत्रस्य सम्बन्धमाह
[भा. ६१९४]
ओवुज्झंती व भया, संफासा रागतो व खिप्पेज्जा । संबंधत्थविहिन्नू, वदंति संबंधमेयं तु ॥
वृ- पानीयेनापोह्यमाना वा भयात् क्षिप्येत, क्षिप्तचित्ता भवेदित्यर्थः । यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा तत्र साधावन्यत्र गते सति क्षिप्तचित्ता भवेत् । अतः क्षिप्तचित्तासूत्रमारभ्यते । एवं सम्बन्धार्थविधज्ञाः सूरयोऽत्र सूत्रे एनं सम्बन्धं वदन्ति ।। अनेन सम्बन्धेनायातस्यास्या व्याख्या'खित्तचित्तं' ति क्षिप्तं ष्टं राग-भया - Sपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णानो वाऽवलम्बमानो वा नातिक्रामति आज्ञामिति सूत्रार्थः ॥
अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह
[ भा. ६१९५ ] रागेण वा भएण व, अहवा अवमानिया नरिंदैन । एते हि खित्तचित्ता, वणिताति परूविता लोए ।।
वृ-रागेण यदि वा भयेनाथवा 'नरेन्द्रेण' प्रजापतिना उपलक्षणमेतत्, सामान्येन वा प्रभुणा ‘अपमानिताः' अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ता भवन्ति । ते च लोके उदाहरणत्वेन परूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथा - वणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥ भयेनापमाने च क्षिप्तचित्तत्वे उदाहरणान्याह -
[ भा. ६१९६ ] भयओ सोमिलबहुओ, सहसोत्थरिया य संजुगादीसु । नरवतिणा व पतीण व, विमाणिता लोगी खेत्ता ॥
वृ- 'भयतः ' भयेन क्षिप्तचित्तो यथा गजसुकुमालमारको जनार्दनभयेन सोमिलनाना 'बटुकः ' ब्राह्मणः । अथवा 'संयुगादिषु' संयुगं - सङ्ग्रामस्तत्र, आदिशब्दात् परबलसमापतनादिपरिग्रहः, तैः, गाथायां सप्तमी तृतयार्थे, 'सहसा' अतर्कितम् 'अस्तृताः' समन्ततः परिगृहीता मनुष्या भयेन क्षिप्तचित्ता भळनअथइ । एवं भयेन क्षिप्तचित्तत्वे उदाहरणमुक्तम् । सम्प्रत्यपमानत आहनरपतिना समस्तद्रव्यापहरणतः काचिद् विमानिता पत्या वा काचिन्महेलाऽपमानिता क्षिप्तचित्ता भवेत् । एवमादिका लौकिकी क्षिप्तचित्ता मन्तव्या ॥ सम्प्रति लोकोत्तरिकीं तामेवाह
[ भा. ६१९७] रागम्मि रायखुड्डी, जड्डाति तिरिक्ख चरिय वातम्मि । रागेण जहा खेत्ता, तमहं वोच्छं समासेणं ॥
वृ- 'रागे' सप्तमी तृतीयार्थे रागेण क्षिप्तचित्ता यथा वक्ष्यमाणा राजक्षुल्लिका । भयेन यथा 'जड्डादीन् ' हस्तिप्रभृतीन् तिरश्च दृष्ट्वा । अपमानतो यथा चरिकया कयाचिद् वादे पराजिता सती काचिन्निर्ग्रन्थी क्षिप्तचित्ता जायते । तत्र रागेण यथा राजक्षुल्लिका क्षिप्तचित्ताऽभवत् तदहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org