________________
बृहत्कल्प-छेदसूत्रम् - ३-३/९९
जानीयात्, यथा- भगवाणीतमसुं धर्ममनुतिष्ठत इहैव भुवनवन्दनीयतायशः प्रवादादयो गुणा उपढौकन्ते, परत्र च स्वर्गा-ऽपवर्गसौख्यप्राप्तिर्भवतीति ॥
एवं श्लोकादेराख्यानादिषु भिक्षां गतेन विधीयमानेषु दोषानाह
४०
[भा. ४५६८ ] एक्का वि ता महल्ली, किमंग पुन होंति पंच गाहाओ । साहणे लहुगा आणादिदोस ते च्चेविमे अन्ने ॥
वृ एवं संहितादिविस्तरेण व्याख्यायमाना तावदेकाऽपि गाथा 'महती' महाप्रमाणा भवति, किमङ्ग पुनः पञ्च गाथाः ? । अतो यद्येकामपि गाथां कथयति तदा चतुर्लघुका आज्ञादयश्च दोषाः, तथा तुरङ्गमादिहृत-नष्टशङ्कादयः 'त एव' अन्तरगृहोक्ता दोषा भवन्ति, 'इमेच' वक्ष्यमाणा अन्ये दोषाः । तानेवाह
[भा. ४५६९ ] गाहा अद्धीकारग, पोत्थग खररडणमक्खरा चेव । साहारण पडिणत्ते, गिलाण लहुगाई जा चरिमं ।।
वृ- भिक्षां पर्यटन कमप्यगारिणमशुद्धां गाथां पठन्तं श्रुत्वा ब्रवीति-विनाशितेयं त्वया गाथा, तथा ‘“अद्धीकारग” त्ति गाथाया अर्धमहं करोमि अर्धं पुनस्त्वया कर्त्तव्यम्, “पुत्यग” त्त्ि पुस्तकादेव भवता शास्त्रमधीतं न पुनर्गुरुमुखात्, "खररडणं" ति किमेवं खर इवारटनं करोषि ? “अक्खरा चेव” त्ति अक्षराण्येव तावद् भवान् जानीते अतः पट्टिकामानय येनाहं भवन्तं तानि शिक्षयामि । इत्यादि ब्रुवाणो यावत् तत्र व्याक्षेपं करोति तावदिभे दोषाः- “साहारणं" ति “साधारणं” सर्वेषु मिलितेषु यद् मण्डल्यां भोजनं तन्निमित्तमितरे साधवस्तं प्रतीक्षमाणास्तिष्ठन्ति । “पडिणत्ति” त्ति तेन साधुना कश्चिद् ग्लानः 'प्रतिज्ञप्तः' अद्याहं भवतः प्रायोग्यमानेष्यामीति, ततस्तेन वेलाविलम्बेन यदसौ ग्लानः परितापादि प्राप्नोति तत्र चतुर्लघुकादि 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तमिति द्वारगाथासमासार्थः । साम्प्रतमेनामेव व्याख्याति
[भा. ४५७० ] भग्गविभग्गा गाहा, भणिइहीना व जा तुमे भणिता । अद्धं से करेमि अहं, तुमं से अद्धं पसाहेहि ॥
वृ-साधुर्भिक्षां गतः स्वपाण्डित्यख्यापनार्थं गृहस्थं पठन्तं श्रुत्वा ब्रवीति-येयं त्वया गाथा भणिता सा भग्नविभग्ना भणितिहीना वा कृता, यद्वा अर्धं "से" तस्या गाथाया अहं करोमि अर्धं पुनस्त्वं प्रसाधय इत्येवमभिनवा गाथा क्रियते ॥
[भा. ४५७१ ] पोत्थगपच्चयपढियं, किं रडसे रासहु व्व असिलायं । अकयमुह ! फलयमानय, जा ते लिक्खंतु पंचग्गा ॥
वृ- पुस्तकप्रत्ययादेव भवता पठितं न गुरुमुखाद् अतः किमेतेन प्रयासेन ?, किं वा त्वमेवं रासभ इव " असिलायं" विस्वरमारटसि ?, यद्वा अकृतम्- अक्षरसंस्कारेणासंस्कृत मुखं यस्यासावकृतमुखस्तस्यामन्त्रणं हे अकृतमुख ! पठितशिक्षित एव भवान् किमपि ज्ञास्यति, अतः 'फलक' पट्टिकामानय येन तव योग्यनि 'पञ्चाग्राणि' अक्षराणि लिख्यन्तामस्माभि ॥ एवं भिक्षां पर्यटन यदि विकत्थते ततं इदं प्रायश्चित्तम्
[भा. ४५७२ ] लहुगादी छग्गुरुमा, तव कालविसेसिया व चउलहुगा । अधिकरणमुत्तरुत्तर, एसण-संकाइ फिडियम्मि ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org