________________
३९
उद्देशक ः ३, मूलं-९८, [भा. ४५६४] हीनाः-त्यक्ताः तत्र गृहान्तरेऽच्छन्ने वा छन्ने वा प्रदेशे ऊद्रधवस्थिता उपविष्टा वा 'ते' साधवः शान्तमुखाआसते। निविश्य च' उपविश्य शेषाण्यपि-स्वाध्यायविधानादीनि यथोक्तानि पदानि यथायोगं भजन्ते, न च दोषमापद्यन्ते ।। कथम्? इति चेद् उच्यते[भा.४५६५] थाणं च कालंच तहेव वत्युं, आसज्ज जे दोसकरे तु ठाणे ।
तेचेव अन्नस्स अदोसंते, भवंति रोगिस्स व ओसहाई॥ वृ-'स्थानंच' स्त्री-पशु-पण्डकसंसक्तभूभागादि कालंच ऋतुबद्धादिकंतथैव वस्तु' तरुणनीरोगादिकं पुरुषद्रव्यमासाद्य यान्येकस्य गृहान्तरे स्थान-निषदनादीनि स्थानानि दोषकारीणि भवन्ति तान्येवान्यस्य पूर्वोक्तविपरीतस्थान-काल-पुरुषवस्तुसाचिव्याद् अदोषवन्ति भवन्ति । रोगिण इवौषधानि-यथा किल यान्यौषधान्येकस्य पित्तरोगिणो दोषाय भवन्ति तान्येवापरस्य वातरोगिणो न कमपि दोषमुपजनयन्ति, एवमत्रापि भावनीयम् ।।
मू. (९९) नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहसिजाव चउगाह वा पंचगाहंवा आइक्खित्तए वा विभावित्तए वाकिट्टित्तए वा पवेइत्तए वा; नऽन्नत्थ एगनाएण वा एगवागरणेन वा एगगाहाए वा एगसिलोएण वा; से विय ठिच्च नो चेवनं अद्विचा ।। [भा.४५६६]अइप्पसत्तो खलु एस अत्थो, जं रोगिमादीण कता अनुन्ना ।
अन्नो वि मा भिक्खगतो करिजा, गाहोवदेसादि अतो तु सुत्तं ।। वृ-अतिप्रसक्तः खल्वेषोऽर्थः, यदनन्तरसूत्रे रोगिप्रभृतीनामन्तरगृहे स्थानादीनामनुज्ञा कृता। एवं हि तत्र स्थानादिपदानि कुर्वन् कश्चिद् धर्मकथामपि कुर्वीत, ततश्चातिप्रसङ्गो भवति, अतोऽन्योऽपि भैक्षगतो मा गाथोपदेशादिकं कार्षीदितीदं सूत्रमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां अन्तगृहे यावत् चतुर्गाथं वा पञ्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा । एतदेवापवदन्नाह-"नऽनथ" इत्यादि, “न कल्पते" इति योऽयं निषेधः स एक ज्ञाताद्वा एकव्याकरणाद्वा एकगाथाया वा एकश्लोकाद्वा अन्यत्र मन्तव्यः । सूत्रे च पञ्चम्याः स्थाने तृतीयानिर्देशः प्राकृतत्वात् । तदपि च एकज्ञातादिव्याख्यानं स्थित्वा कर्त्तव्यम्, नैव अस्थित्वा' भिक्षांपर्यटतोपविष्टेनवा इति सूत्रार्थः।।
अत्र विषमपदानि भाष्यकृद् विवृणोति[भा.४५६७] संहियकड्डणमादिक्खणंतु पदछेद मो विभागो उ।
सुत्तत्थोकिट्टणया, पवेतणं तप्फलं जाणे ।। वृ-इह संहितायाः-अस्खलितपदोच्चारणरुपाया यद् आकर्षणं तद् आख्यानमुच्यते; तच्चेदम्
व्रत-समिति-कषायाणां, धारण-रक्षण-विनिग्रहाः सम्यक् ।
. दण्डेभ्यश्चोपरमो, धर्म पञ्चेन्द्रियदमश्च ।। एवं भिक्षां गतो गृहस्थानां धर्मकथनार्थं संहिताकर्षणं करोति । यस्तु पदच्छेदः “मो" इति पादपूरणे सः 'विभागः' विभावना भण्यते, यथा-व्रतानां धारणं समितीनां रक्षणं कषायाणां निग्रह इत्यादि । यत्तुसूत्रार्थकथनं सा उत्कीर्तना, साचेयम्-व्रतानि-प्राणातिपातादिविरमणरुपाणि तेषां सम्यग्-अप्रमत्तेन धारणं कर्त्तव्यम्, समितयः-ईर्यासमित्यादयस्तासामेकाग्रचेतसा रक्षणं विधेयमित्यादि । तस्य-धर्मस्य यत् फलम्-ऐहिका-ऽऽमुष्मिकलाभलक्षणं तत्परुपणं प्रवेदनं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org