SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ बृहत्कल्प-छेदसूत्रम् -३-३/९८ यावद्भक्त-पानभृतंभाजनंवसतौ विभुच्य समागच्छति, वर्षासुवागृहं प्रविष्टानां वर्षं निपतेत्, वधु-वराद्यागमनेन वा रथ्यायां व्याघातो भवेत् तावत् तत्रैव गृहान्तरे 'यतनया' वक्ष्यमाणया स्थातुं कल्पते । एष द्वाराथासमासार्थः।। अथैनामेव विवरीषुरौषध-सङ्घडिद्वारे व्याख्यानयति[भा.४५६०] पीसंति ओसहाई, ओसहदाता व तत्थ असहीणो। संखडि असतीकालो, उटुिंतेवा पडिच्छंति॥ वृ-ग्लानस्यौषधानि पेष्टव्यानि, तत्र पेषणशिला प्रतिश्रयेनेतुंन लभ्यते ततस्तेषामेवागारिणां गृहान्तरे स्थित्वा तानि पिंषन्ति । औषधमार्गणार्थं वा कस्यापि गृहं गताः, सचौषधदाता तदानीं तत्रास्वाधीनः, अतस्तं प्रतीक्षमाणैः स्थातव्यम् । सङ्खडी च क्वापि वर्तते, तत्र च 'असत्कालः' अद्यापि देशकालो न भवति, गृहस्वामिना चोक्तम्-प्रतीक्षध्वं क्षणमेकं यावद् वेला भवति, ततस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम्; अगारिणो वा तदानीं गृहाङ्गणमापूर्य भोक्तुमुपविष्टाः सन्ति ततस्तान् उत्तिष्ठतः प्रतीक्षन्ते। सङ्घाटकद्वारमाह[भा.४५६१] एगयर उभयओवा, अलंभे आहन्च वा उभयलंभो। वसहिं जा नेएगो, ता इअरो चिट्ठई दूरे॥ वृ-'एकतरस्य' भक्तस्य वापानकस्य वा उभयोर्वा 'अलाभे दुर्लभतायामित्यर्थ, "आहच्च" कदाचिदुभयमपि प्रचुरतरंलब्धम्, तेन च भाजनमापूरितम्, ततः सङ्घाटकस्य मध्याद्यावदेकः तद् भाजनं वसतिं नयति तावदितरः साधुरगारिणां दूरे भूत्वा तिष्ठति । एष चूर्ण्यभिप्रायः । पुनरयम्-भक्तस्य पानस्य वा उभयस्य वा दुर्लभस्य लाभः समुपस्थितः, मात्रकंचतस्मिन् दिने अनाभोगेन नगृहीतम्ततो यावदेको मात्रकं वसतेरानयतितावदितरस्तत्रगृहीणां दूरे तिष्ठतीति। वर्षाद्वारमाह[भा.४५६२] वासासु व वासंते, अनुन्नवित्ताण तत्थऽनावाहे। ___ अंतरगिहे गिहे वा, जयणाए दो वि चिट्ठति ॥ वृ-वर्षासु वाक्वापिगृहे गतानांवर्षेवर्षतिगृहस्वामिनमनुज्ञाप्य तत्रानाबाधेऽवकाशेऽन्तरगृहे वा गृहे वा 'द्वावपि' सङ्घाटकसाधू 'यतनया' विकथादिपरिहारेण तिष्ठतः ।। प्रत्यनीकद्वारमाह[भा.४५६३] पडिनीय निवे एंते, तस्स व अंतउरे गते फिडिए। वुग्गह निव्वहणाती वाघातो एवमादीसु॥ वृ-प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ व्यतिव्रजति तावदेकान्ते निलीय तिष्ठन्ति । नृपो वा सम्मुखमेति, तस्य वा नृपस्यान्तःपुरं 'गजो वा' हस्ती निर्गच्छति, ततो यावदसौ स्फिटितो भवति तावत्तत्रैवासते। “वुग्गह"त्ति दण्डिकौ द्विजौवा द्वौपरस्परं विग्रहं कुर्वन्तौसमागच्छतः, "निव्वहणं" ति वधु-वरं तद् महता विच्छर्दैन समायाति, आदिशब्देन गौष्ठिका गीतं गायन्तः समायान्ति, एवमादिषु कारणेषु व्याधातः' तत्रैव प्रतीक्षणलक्षणो भवति॥ तत्र च तिष्ठतामियं यतना[भा.४५६४] आयाणगुत्ता विकहाविहीना, अच्छन्न छन्ने व ठिया विट्ठा । अच्छंति ते संतमुहा निवि, भजंति वा सेसपदे जहुत्ते ॥ . वृ-आदानैः-इन्द्रियैर्गुप्ताःतथा विकथया-भक्तकथादिरुपया विशेषेण हस्तसंज्ञादेरपिपरिहारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy