________________
उद्देश : ४, मूलं - १३४, [भा. ५५११]
२३३
वृ- एकं तस्य मृतकस्याध आस्तरणार्थं द्वितीयं पुनः प्रक्षिप्योपरि घनं बघ्नीयात् । किमुक्तं भवति ? - द्वितीयेन तद् मृतकं प्रावृत्योपरि दवरकेण घनं बध्यते । तृतीयम् 'उत्कृष्टतरम्' अतीवोज्वलं बन्धादिच्छादनार्थं तदुपरि स्थापनीयम् । एवं जघन्यतस्त्राणि वस्त्राणि ग्रहीतव्यानि । उत्कर्षतस्तु गच्छं ज्ञात्वा बहून्यपि गृह्यन्ते ॥
[ भा. ५५१२] एतेसिं अग्गहणे, चउगुरु दिवसम्मि वन्निया दोसा । रत्तिं च पडिच्छंते, गुरुगा उट्ठाणमादीया ॥
वृ- 'एतेषाम्' एवंविधानां त्रयाणां वस्त्रणामंग्रहणे चतुर्गुरु प्रायश्चित्तम् । मलिनवस्त्रप्रावृते च तस्मिन् दिवसतो नीयमाने 'दोषाः' अवर्णवादादयो वर्णिताः । अथैतद्दोषभयाद् 'रात्री परिष्ठापयिष्यामि' इति बुध्या मृतकं प्रतीक्षापयति ततश्चतुर्गुरुका उत्थानादयश्च दोषाः ॥ कथं पुनरवर्णवादादयो दोषाः ? इत्याह
[भा. ५५१३] उज्झाइए अवन्नो, दुविह नियत्ती य मइलवसणाणं । तम्हा तु अहत कसिणं, धरेंति पक्खस्स पडिलेहा ॥
वृ- " उज्झाइए" मलिनकुचेले तस्मिन् नीयमानेऽवर्णो भवति - अहो अमी वराका मृता अपि शोभां न लभन्ते । मलिनवस्त्राणां च दर्शने द्विविधा निवृत्तिर्भवति, सम्यक्त्वं प्रव्रज्यां च ग्रहीतुकामाः प्रतिनिवर्तन्ते । शुचि - श्वेतवस्त्रदर्शने तु लोकः प्रशंसति - अहो ! शोभनो धर्म इति । यत एवं तस्माद् 'अहतम्' अपरिभुक्तं 'कृत्स्नं' प्रमाणतः प्रतिपूर्णं वस्त्रत्रिकं धारणीयम् । पक्षस्य चान्ते तस्य प्रत्युपेक्षणा कर्तव्या, दिवसे दिवसे प्रत्युपेक्षमाणं हि मलिनीभवेत् ॥ गतं नन्तकद्वारम् । अथ “दिवा रात्रौ वा कालगतः" इति द्वारमाह[भा. ५५१४] आसुक्कार गिलाणे, पच्चक्खाए व आनुपुवीए ।
दिवसरस व रत्तीइ व, एगतरे होजऽवक्कमणं ॥
वृ-आशु-शीघ्रंसजीवस्य निर्जीवीकरणमाशुकारः, तत्कारणत्वाद् अहि-विष-विशूचिकादयोऽप्याशुकारा उच्यन्ते, तैः 'अपक्रमणं' मरणं कस्यापि भवेत् । 'ग्लानत्वेन वा' मान्छेन कोऽपि म्रियेत । 'आनुपूर्व्या वा' शरीरपरिकर्मणाक्रमेण भक्ते प्रत्याख्याते सति कश्चित् कालधर्मं गच्छेत्। एवं दिवस - रजन्योरेकतरस्मिन् काले जीवितादपक्रमणं भवेत् ॥
[ भा. ५५१५] एव य कालगयम्मिं, मुनिना सुत्त - Sत्थगहितसारेणं । न विसातो गंतव्वो, कातव्व विधीय वोसिरणं ।।
वृ- 'एवम्' एतेन प्रकारेण कालगते सति साधौ सूत्रा -ऽर्थगृहीतसारेण मुनिना न विषादो गन्तव्यः, किन्तु कर्तव्यं तस्य कालगतस्य विधिना व्युत्सर्जनम् ।। कथम् ? इत्याह
[ भा. ५५१६ ] आयरिओ गीतो वा, जो व कडाई तहिं भवे साहू । कायव्वो अखिलविही, न तु सोग भया व सीतेज्जा ॥
वृ- यस्तत्राचार्योऽपरो वा गीतार्थो यो वा अगीतार्थोऽपि 'कृतादि' ईशे कार्ये कृतकरणः आदिशब्दाद् धैर्यादिगुणोपेतः साधुर्भवति तेनाखिलोऽपि विधिः कर्तव्यः, न पुनः शोकाद् भयाद्वा तत्र ‘सीदेत्’ यथोक्तविधिविधाने प्रमादं कुर्यात् । किमालम्ब्य शोक-भये न कर्त्तव्ये ? इत्याह[भा. ५५१७] सव्वे वि मरणधम्मा, संसारी तेन कासि मा सोगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org