________________
बृहत्कल्प-छेदसूत्रम् -३-४/१३४
वृ-प्रथमायां दिशि शबस्य परिष्ठापने प्रचुरान्न-पान-वस्त्रलाभतः समाधिर्भवति । तस्यां सत्यां यदि दक्षिणस्यां परिष्ठापयन्ति तदा भक्त - पानं न लभन्ते, अपरस्यामुपकरणं न प्राप्नुवन्ति, दक्षिणपूर्वस्यां तुमन्तुमा परस्परं साधूनां भवति, अपरोत्तरस्यां कलहः संयत-गृहस्था ऽयन्तीर्थिकिः समं भवति, पूर्वस्यां गणभेदश्चारित्रभेदो वा भवेत्, उत्तरस्यां ग्लानत्वम्, 'चरमा' पूर्वोत्तरा सा कृतमृतकपरिष्ठापना अन्यं साधुमाकर्षति, मारयतीत्यर्थः ॥
२३२
[ भा. ५५०७ ] आसन्न मज्झ दूरे, वाघातट्ठा तु थंडिले तिन्नि । खेत्तुदय-हरिय-पाणा, निविट्ठमादी व वाघाए ।
वृ- प्रथममायामपि दिशि त्रीणि स्थण्डिलानि प्रत्युपेक्षणीयानि - ग्रामादेरासन्ने मध्ये दूरे च । किमर्थं पुनस्त्रीणि प्रत्युपेक्ष्यन्ते ? इत्याह-व्याघातार्थम्, व्याघातः कदाचिद् भवेदित्यर्थः । स चायम्- क्षेत्रं तत्र प्रदेशे कृष्टम्, उदकेन वा भावितम्, हरितकायो वा जातः, त्रसप्राणिभिर्वा संसक्तं समजनि, ग्रामो वा निविष्टः, आदिग्रहणेन सार्थो वा आवासितः । एवमादिको व्याघातो यदि आसन्नस्थण्डिले भवति तदा मध्ये परिष्ठापयन्ति, तत्रापि व्याघाते दूरे परिष्ठापयन्ति । अथ प्रथमायां दिशि विद्यमानायां द्वितीयायां तृतीयायां वा प्रत्युपेक्षन्ते ततश्चतुर्गुरुकाः । एते च दोषाः[भा. ५५०८] एसणपेल्लण जोगाण व हानी भिन्न मासकप्पो वा । भत्तोवधीअभावे, इति दोसा तेन पढमम्मि ॥
वृ-भक्त- पानालाभाद् उपधेरलाभाच्च एषणाप्रेरणं कुर्युः । अथैषणांन प्रेरयेयुः ततः 'योगानाम्' आवश्यकव्यापाराणां हानि । अपरं वा क्षेत्रं गच्छतां मासकल्पो भिन्नो भवेत् । एवमादयो दोषा भक्तोपध्योरभावे भवन्ति ततः प्रथमे दिग्भागे महास्थण्डिलं प्रत्युपेक्षणीयम् ॥
[भा. ५५०९ ] एमेव सेसियासु वि, तुमंतुमा कलह भेद मरणं वा । जं पावंत सुविहिया, गणाहिवो पाविहिति तं तु ॥
वृ-यथा द्वितीयायां तृतीयायां च दोषा उक्ता एवमेव 'शेषास्वपि' चतुथ्यादिषु यत् तुमन्तुमाकरणं कलहं गणभेदं मरणं वा सुविहिताः प्राप्नुवन्ति तद् गणाधिपः सर्वमपि प्राप्स्यति । अथ प्रथमायां व्याघातस्ततो द्वितीयायामपि प्रत्युपेक्षणीयम् । तस्यां च स एव भक्त - पानलाभलक्षणो गुणो भवति यः प्रथमायामुतः । अथ द्वितीयस्यां विद्यमानायां तृतीयायामां प्रत्युपेक्षन्ते ततः स एव प्रागुक्तो दोषः, एवमष्टमीं दिशं यावद् नेतव्यम् । अथ द्वितीयस्यां व्याघातस्ततस्तृतीयस्यां प्रत्युपेक्षणीयम्, तस्यां च स एव गुणो भवति। एवमुत्तरोत्तरदिक्ष्वपि भावनीयम् ॥
गतं दिग्द्वारम् । अथ नन्तकद्वारमाह
[ भा. ५५१० ]
वित्थारा-ऽऽयामेणं, जं वत्थं लब्भती समतिरेगं ।
चोक्ख सुतिगं च सेतं, उवक्कमट्ठा धरेतव्वं ॥
वृ- विस्तारेणायामेन च यद् वस्त्रप्रमाणमर्द्धतृतीयहस्तादिकं तृतीयोद्देशके भणितं ततो यद् वस्त्रं समतिरेकं लभ्यते । कथम्भूतम् ? "चोक्खं" धवलितं 'शुचिकंनाम' सुगन्धि 'श्वेतं' पाण्डुरम्। एवंविधं जीवितोपक्रमार्थं गच्छे धारयितव्यम् ॥ गणनाप्रमाणेन तु तानि त्राणि भवन्ति, तद्यथा[ भा. ५५११] अत्थुरणट्ठा एगं, बिइयं छोढुमुवरिं घनं बंधे । उक्कोसयरं उवरिं, बंधादीछादणट्ठाए ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org