________________
२३१
उद्देशकः ४, मूलं-१३४, [भा. ५५०१]
काउस्सग्ग पदाहिण, अब्भुट्ठाणे य वाहरणे॥ [भा.५५०२] काउस्सग्गे सज्झाइए य खमणस्स मग्गणा होइ ।
वोसिरणे ओलोयण, सुभा-ऽसुभगइ-निमित्तट्ठा ॥ वृ- वहनकाष्ठस्य स्थण्डिलस्य च प्रथमत एव प्रत्युपेक्षणं विधेयम् । “दिस"त्ति दिग्भागो निरूपणीयः । "नंतए य"त्ति औपग्रहिकान्तकं मृताच्छादनार्थं गच्छे सदैव धारणीयम्; जातिप्रधानश्चायं निर्देशः, ततो जघन्यतोऽपि त्रीणि वस्त्राणि धारणीयानि । “काले दिया व राओ अ"त्ति दिवा रात्रौ वा कालगते विषादोन विधेयः । रात्रौ च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनंच कर्तव्यम् । एवं विधिं तत्र कुर्यात् ॥तथा नक्षत्रं विलोक्य कुशप्रतिमाया एकस्या द्वयोर्वा करणमकरणं वा । “नियत्तणि"त्ति येन प्रथमतो गताः न तेनैव पथा निवर्तनीयम् । मात्रके पानकं गृहीत्वा पुरत एकेन साधुना गन्तव्यम् । यस्यां दिशि ग्रामस्ततः शीर्षं कर्तव्यम्। तृणानि समानि प्रस्तरणीयानि । 'उपकरणं' रजोहरणादिकं तस्य पार्वे धारणीयम् । अविधिपरिष्ठापनायाः कायोत्सर्गस्थण्डिले स्थितैर्न कर्तव्यः । निवर्तमानैः प्रादक्षिण्यं न विधेयम्। शबस्य चाभ्युत्थाने वसत्यादिकं परित्यजनीयम् । यस्य च संयतस्य 'व्याहरणं' नामग्रहणं स करोति तस्य लोचः कर्तव्यः ।। गुरुसकाशमागतैः कायोत्सर्गो विधेयः । स्वाध्यायकस्य क्षपणस्य च मार्गणा कर्तव्या । उच्चारादिमात्रकाणां व्युत्सर्जनं कर्तव्यम् । अपरेऽह्नि तस्यावलोकनं शुभाऽशुभगतिज्ञानार्थनिमित्तग्रहणार्थंचविधेयमितिद्वारगाथात्रयसमासार्थः।। अथैतदेव विवरीषुराह[भा.५५०३] जंदव्वं घनमसिणं, वावारजढं च चिट्ठए बलियं ।
वेणुमय दारुगंवा, तं वहणट्ठा पलोयंत ॥ वृ-यद् द्रव्यं वेणुमयं दारुकं वा घनमसृणं 'व्यापारमुक्तम्' अवहमानकं 'बलीयः' दृढतरं सागारिकस्य गृहे तिष्ठतितत् कालगतस्य वहनार्थं प्रथममेव प्रलोकयन्ति, महास्थण्डिलं च प्रत्युपेक्षणीयम् ।। अथ न प्रत्युपेक्षन्ते तत इमे दोषाः[भा.५५०४] अत्थंडिलम्मिकाया, पवयणघाओ य होइ आसन्ने।
छड्डावण गहणाई, परुग्गहे तेन पेहिज्जा॥ वृ-अस्थण्डिले परिष्ठापयन्षट्कायाविराधयति।प्रवचनघातश्चग्रामादेरासने परिष्ठापयतो भवति । परावग्रहे च परिष्ठापयतः छर्दापनं भवेत् । छपिनं नाम-ते बलादपि साधुपादिन्यत्र तं शबं परित्याजयेयुः । ग्रहणा-ऽऽकर्षणादयो दोषा भवेयुः । ततो महास्थण्डिलमवश्यं प्रागेव प्रत्युपेक्षेत । गतं प्रत्युपेक्षणाद्वारम् । अथ दिग्द्वारमाह[भा.५५०५]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा ।
अवरुत्तरा य पुव्वा, उत्तर पुव्युत्तरा चेव॥ वृ-प्रथमम् ‘अपरदक्षिणा' निर्ऋती दिग् निरीक्षणीया, तदभावे दक्षिणा, तस्या अभावेऽपरा, तदप्राप्तौ 'दक्षिणपूर्वा' आग्नेयी, तदलाभे 'अपरोत्तरा' वायवी, तस्या अभावे पूर्वा, तदभावे उत्तरा, तदभावे उत्तरपूर्वा ।। सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषानाह[भा.५५०६] समाही य भत्त-पाने, उवकरणे तुमंतुमा य कलहोय ।
भेदो गेलनं वा, चरिमा पुन कड्डए अनं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org