________________
६६
बृहत्कल्प-छेदसूत्रम् -३-३/१०४
वृ- यथा लिङ्गसहितः संज्ञी निर्दिष्टानां बहूनां मध्ये यमेवाभ्युपगतस्तस्यैवाभवति, एवमेवाशिस्वाकोऽपि संज्ञी बहून् निर्दिश्यागतो यस्यैव निर्दिष्टस्यान्तिके 'उपगतः' प्रव्रजितं परिणतस्तस्यैवासौ शिष्यौ भवति नान्यस्य । यस्तु सशिखाकः संज्ञी स कमप्यभ्युपगतोऽपि यदि पश्चाद् विपरिणतस्तदा यस्यान्तिके प्रव्रजितुमिच्छति तस्याभवति । “दो व अस्सन्नि त्ति 'द्वौ वा ' अशिखाक-सशिखाकलक्षणौ यौ असंज्ञिनौ तावपि पूर्वं कञ्चनाभ्युपगतौ पश्चाद् विपरिणतौ स्वच्छन्देन यदुपकण्ठे प्रव्रजतस्तस्याभाव्यौ । अस्यैवार्थस्य सुखावबोधाय भङ्गकानाह[भा. ४६९७] निट्ठि सन्नि अब्भुवगतेतरे अट्ठ लिंगिणो भंगा। एवमसिहे विससिहे, वि अट्ठ सव्वे वि चउवीसं ॥
वृ- कमप्याचार्यं निर्दिश्य गछन् निर्दिष्टः, 'संज्ञी' श्रावकः, 'अभ्युपगतः' प्रव्रजितुं परिणतः; एतैस्त्रिभिः पदैः “इयरे' त्तिप्रतिपक्षपदसहितैरष्टौ भङ्गाः 'लिङ्गिनः' लिङ्गसहितस्य गच्छतो भवन्ति । तथाहि-निर्दिष्टः संज्ञी अभ्युपगतः १ निर्दिष्टः संज्ञी अनभ्युपगतः २ निर्दिष्टोऽसंज्ञी अभ्युपगतः ३ निर्दिष्टोऽसंज्ञी अनभ्युपगतः ४, अनिर्दिष्टपदेनाप्येवमेव चत्वारो भङ्गा लभ्यन्ते, एते अष्टौ भङ्गा लिङ्गिन उक्ताः । अशिस्वाके सशिस्वाकेऽपि चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति । सर्वेऽप्येते मीलिताश्चतुर्विंशतिरुपजायन्ते ।। एतेषु विधिमाह
[भा. ४६९८ ] पढम- बिति-ततिय-पंचम - सत्तम- नव-तेरसेसु भंगेसु । विष्परिणतो वि तस्सेव होइ सेसेसु सच्छंदो ॥
वृ-प्रथम- द्वितीय तृतीय - पञ्चम-सप्तम नवम त्रयोदशेषु भङ्गेषु विपरिणतोऽपि यं निर्दिश्यागतो यं वा अभ्युपगतस्तस्यैवाभवति । 'शेषेषु' चतुर्थ षष्ठाऽष्टम- दशमैकादश-द्वादश- चतुर्दशादिषु चतुर्विशान्तेषु सप्तदशसु भङ्गेषु 'स्वच्छन्दः' स्वेच्छा, यः प्रतिभाति तस्यैवाभवतीत्यर्थः ॥
इदमेव व्यक्तीकुर्वन्नाह
[ भा. ४६९९] सव्वो लिंगी असिहो, य सावतो जस्स अब्भुवगतो सो । निद्दिसन्निलिंगी, तस्सेवाणब्भुवगतो वि ॥
- सर्वो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिकेऽभ्युपगतः स एव तं लभते । किमुक्तं भवति ? -यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी वा भवतु, यश्चाशिखाकः श्रावकोऽभ्युपगतः सोऽपि निर्दिष्टोऽनिर्दिष्टो वा भवतु, एष सर्वोऽपि यमेवाभ्युपगतो विपरिणतोऽपि तस्यैवाभवति। एतेन प्रथम- तृतीय- पञ्चम- सप्तम नवम त्रयोदशभङ्गाः सूचिताः । तथा यो लिङ्गी निर्दिष्टः संज्ञी च स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतः तस्यैवाभवति, न पुनर्विपरिणतोऽप्यन्यस्य, अनेन द्वितीयो भङ्गो गृहीतः । शेषेषु तु सप्तदशस्वपि भङ्गेषु यत्राभ्युपगतस्तत्राविपरिणतस्तस्यैव, विपरिणतस्तु स्वेच्छया; यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिमतो वा यथास्वच्छन्दमाभाव्य इति ॥
गतं "कथं कल्पोऽभिधारणे" इति द्वारम् । अथैकग्रामे इति द्वारमाह
[भा. ४७००] अस्सन्नी उवसमितो, अप्पणो इच्छाइ अन्नहिं तस्स । दवणं च परिणए, उवसामिते जस्स वा खित्तं ।।
वृ- केनचिद् धर्मकथिना कश्चिद् 'असंज्ञी' मिथ्यादृष्टि 'उपशमितः' प्रव्रज्याभिमुखीकृतः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org