________________
३६६
बृहत्कल्प-छेदसूत्रम् -३-६/२०१ आत्मविराधनां संयमविराधनां वा करोति 'तत्स्थान' तन्निष्पन्नं प्रायश्चित्तं सा निर्ग्रन्थी आपद्यते। अत इदं सूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्ये 'अधःपादे' पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा 'पर्यापतेत्' अनुप्रविशेत्, 'तच्च' कण्टकादिकं निर्ग्रन्थो न शक्नुयात् 'नीहर्तुवा' निष्काशयितुंवा 'विशोधयितुंवा' निशेषमपनेतुम्, तनिर्ग्रन्थीनीहरन्ती वा विशोधयन्ती वा नातिकामति, आज्ञामिति गम्यते इति प्रथमसूत्रम्॥
द्वितीयसूत्रे-निर्ग्रन्थस्य अक्षिण' लोचने 'प्राणावा' मशकादयः सूक्ष्माः ‘बीजानि वा सूक्ष्माणि श्यामाकादीनि ‘रजो वा' सचित्तमचित्तं वा पृथिवीरजः ‘पर्यापतेत्' प्रविशेत्, ‘तच्च प्राणादिकं निर्ग्रन्थोनशक्नुयात्रीहर्तुमित्यादिप्राग्वत्॥ तृतीय-चतुर्थसूत्रेनिग्रन्थीविषये एवमेव व्याख्यातव्ये। इति सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.६१६६] पाए अच्छि विलग्गे, समणाणं संजएहि कायव्वं ।
समणीणं समणीहिं, वोच्चत्थे होंति चउगुरुगा॥ वृ-पादे अक्षिण वा विलग्ने कण्टक-कणुकादौ श्रमणानां संयतैर्नीहरणं कर्तव्यम्, श्रमणीनां पुनः श्रमणीभि कार्यम् । अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः ॥एते चापरे दोषाः[भा.६१६७] अन्नत्तो चिय कुंटसि, अन्नत्तो कंटओ खतं जातं ।
दिलृ पि हरति दिद्धिं, किं पुन अद्दिट्ठ इतरस्स ॥ वृ-संयतः संयत्याः पावत् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत् ततःसातंतथास्थितंपश्यन्ती कणटकस्थानादन्यत्रान्यत्रशल्योद्धरणादिनाकुण्टयेत, खन्यादित्यर्थः। ततः साधुइँयात्-अन्यत एव त्वं कुण्टयसि कण्टकश्चान्यत्र समस्ति एवं मे क्षतं सजातम् । सा प्राह-'इतरस्य' पुरुषस्य सम्बन्दि सागारिं दृष्टमपि भुक्तभोगिन्याः स्त्रयाअनेकशो विलकितमपि दृष्टिं हरति किं पुनरदृष्टमभुक्तभोगिन्याः?, तस्याः सुतरां दृष्टिं हरतीत्यर्थः । एवं भिन्नकथायां प्रतिगमनादयो दोषाः ॥ यदा तु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः[भा.६१६८] कंटग-कणुए उद्धर, धणितं अवलंब मे भमति भूमी।
सूलं च बत्थसीसे, पेल्लेहि घनं थणो फुरति॥ . वृ-काचिदार्यिका कैतवेनेदं ब्रूयात्-'कण्टक-कणुके' पादे कण्टकं चक्षुषि च कणुकमुद्धर, 'धनियं' अत्यर्थं मामवलम्बस्व, यतो ममभ्रमिवशेन भूमिभ्रमति।शूलंवा बस्तिशीर्षेमम समायाति तेन स्तनः स्फुरति, अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः॥ [भा.६१६९] एए चेव य दोसा, कहिया थीवेद आदिसुत्तेसु।
अयपाल-जंबु-सीउण्हपाडणं लोगिगी रोहा॥ वृ- ‘एत एव' अनन्तरोक्ता दोषाः स्त्रीवेदविषयाः ‘आदिसूत्रेषु' सूत्रकृताङ्गान्तर्गतस्त्रपरिज्ञाध्ययनादिषुसविस्तरं कथिताः।अत्रचाजापालक-शीतोष्ण-जम्बूपातनोपलक्षितालौकिकी रोहायाः कथा। तद्यथा-रोहा नामं परिव्वाइया ।ताए अयावालगो दिट्ठो। सो ताए अभिरुईओ। तीए चिंतियं-विन्नाणं से परिक्खामि।सोय तया जंबूतरुवरारूढो । तीए फलाणिपणईओ।तेन भन्नई-किंउण्हाणिदेमि? उयाहु सीयलाणि? ति।तीए भन्नइ उण्हाणि ।तओ तेन घूलीए उवरिं पाडियाणि, भणिया-खाहि त्ति । तीए फूमिउं धूलिं अवनेउं खइयाणि । पच्छा सा भणइ-कहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org