SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३६५ उद्देशकः ६, मूलं-१९७, [भा. ६१६२] वृ-द्वितीयपदे अनाभोगेन सहसा वा प्राणवधादिविषयं वादमुक्त्वा भूयः 'समावरतेत' प्रत्यावर्तेत, मिथ्यादुष्कृतमपुनः करणेन दद्यादित्यर्थः । अथवा जाननपि, पुनःशब्दो विशेषणे, सचैतद् विशिनष्टि-योऽयोग्यःशैक्षः । प्रव्राजितस्तस्यविवेचनार्थं प्राणातिपादादिवादमपिवदेद् येनासावुद्वेजितो गणा निर्गच्छति॥ मू. (१९८)निग्गंथस्सय अहेपादंसि क्खाणू वा कंटगे वा हीरे वा सक्करे वा परियावजेजा, तं च निरगंथे नो संचाइजा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कम ॥ मू. (१९९) निग्गंथस्स य अचिंसि पाणे वा बीए वा रए वा परियावजेजा, तंच निग्गंथे नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणीवा विसोहेमाणी वा नाइक्कमइ॥ मू. (२००)निग्गंथीए अहेपादंसि क्खाणू वा कंटए वा हीरए वा सक्करे वा परियावजेजा, तं च निग्गंथी नो संचाइजा नीहरित्तए वा विसोहित्तए वा, तंच निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ॥ मू. (२०१)निग्गंधीएअञ्ििसपाने वा बीए वारएवाजावनिग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ॥ वृ-अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.६१६३] पायं गता अकप्पा, इदानि वा कप्पिता इमे सुत्ता । ___ आरोवणा गुरु त्तिय, तेन तु अन्नोन्न समणुना॥ वृ-'प्रायः' प्रायेण 'अकल्पिकानि' 'नो कल्पन्ते' इति निषेधप्रतिपादकानि सूत्राणि इहाध्ययने गतानि । 'इदानीम्' इत ऊर्द्धवमिमानि कल्पिकसूत्राणि भण्यते । 'वा' विभाषायाम्, सूत्रेणानुज्ञायार्थतः प्रतिषेधः क्रियते, एवं वैकल्पिकान्यनुज्ञासूत्राणीत्यर्थः । अथ किमर्थमत्र सूत्रएवानुज्ञा कृता? इत्याह-"आरोवणा" इत्यादि। यदि कारणे निर्ग्रन्थस्यन निर्ग्रन्थी निर्ग्रन्थ्या वा निर्ग्रन्थः कण्डकादिकं न नीहरति तदा चतुर्गुरु । एवमारोपणा 'गुरुका' महती तेन कारणेन 'अन्योन्यं' परस्परं समनुज्ञा सूत्रेषु कृता॥ आह-यदि सूत्रेणानुज्ञातं ततः किमर्थमर्थतः प्रतिषिध्यते? इति अत आह[भा.६१६४] जह चेव य पडिसेहे, होति अनुन्ना तु सव्वसुत्तेसु । तह चेव अनुन्नाए, पडिसेहो अत्थतो पुव्वं ॥ वृ-यथैव कण्ठतः सूत्रपदैः प्रतिषेधे कृते सर्वसूत्रेष्वप्यर्थतोऽनुज्ञा भवति तथैव येषु सूत्रेषु साक्षात् 'अनुज्ञातम्' अनुज्ञा कृता तेषु पूर्वमर्थतः प्रतिषेधस्ततोऽनुज्ञा क्रियते॥ अथवा प्रकारान्तरेण सम्बन्धः, तमेवाह[भा.६१६५] तट्ठाणं वा वुत्तं, निग्गंथो वाजता तु न तरेजा। सोजं कुणति दुहट्टो, तदा तुतट्ठाणमावज्जे ।। वृ- अथवा 'तत्स्थानं' तस्य-प्राणातिपातादिकर्तु स्थानं-प्रायश्चित्तं सम्यगप्रतिपूरयतोऽभ्याक्यानदातुर्भवति इत्युक्तम् । अत्रापि निर्ग्रन्थः कण्टकादिकं यदा उद्धर्तुं 'नतरेत्' न शक्नुयात् तदा यदि निर्ग्रन्थी तस्य कण्टकादिनीहरणं न करोति तदा स निर्ग्रन्थः 'दुःखार्त' पीडितो यद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy