________________
उद्देशक : ३, मूलं १०४, [ भा. ४६५० ]
५७
अनेनायातस्यास्य व्याख्या- "जद्दिवसं”ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया, ततो यस्मिन् दिवसे श्रमणा निर्ग्रन्थाः शय्या च वसति संस्तारकश्च - तृण- फलकात्मकः शय्या-संस्तारकम् । अत्र शय्याग्रहणेन ऋतुबद्धकालः सूचितः संस्तारकग्रहणेन तु वर्षाकालः, अथवा कारणजाते ऋतुबद्धेऽपि संस्तारको गृह्यते इति कृत्वा संस्तारकग्रहणेन द्वावपि गृहीतौ; ततो मासकल्पे वर्षावासे वा पूर्णे शय्यां संस्तारकं वा यस्मिन् दिवसे पूर्वस्थिताः साधवः 'विप्रजहति' परित्यजन्ति तद्दिवस एवापरे श्रमणा निर्ग्रन्थास्तत्र क्षेत्रे "हव्वं” शीघ्रमागच्छेयुः ततः सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति । किमुक्तं भवति ? - य एव ततः क्षेत्राद् निर्गतास्तेषामेवावग्रहे तत् क्षेत्रम्, ये तु तद्दिवसमन्ये आगतास्ते क्षेत्रोपसम्पन्ना इति कृत्वा यत् त्र सचित्तादिकं तत् पूर्वस्थितानामाभाव्यम् । कियन्तं कालं यावद् ? इत्याह-‘“अहालंदमवि उग्गहे" इह यस्यां वेलायां ते साधवो निर्गतास्तावतीं वेलां यावद् द्वितीयेऽप्यह्नि तेषामेवावग्रहो भवतीति वक्ष्यते, ततः यथालन्दम् इहाष्टपौरुषीप्रमाणं मध्यमं गृह्यते एतावन्तमपि कालं तदीय एवावग्रहे तत क्षेत्रम्, अतो यद्यागन्तुकास्तत्र सचित्तादिग्रहणं कुर्वन्ति तदा साधर्मिकस्तैन्यप्रत्ययं प्रायश्चित्तमापद्यन्ते । अत्र तु सचित्तेनाधिकार इति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः, तत्र सचित्तावग्रहः शैक्षविषय इति कृत्वा प्रथमतस्तदुत्पत्तिं दर्शयति[ भा. ४६५१] सुत्त - Sत्थ - तदुभयविसारए य खमए य धम्मकहि वाई । कालदुअम्मि वसंते, उवसंतो स - अन्नगामजनो ।।
वृ- 'कालद्वये' ऋतुबद्ध-वर्षावासलक्षणे कचित् क्षेत्रे वसतां स्वग्रामजनः सक्रोशयोजनाभ्यन्तरवर्त्ती अन्यग्रामजनश्च ‘उपशान्तः' प्रतिबुद्धः । कथम् ? इत्याह-सूत्रार्थतदुभयविशारद आचार्य सातिशयं प्रवचनव्याख्यानं करोति, क्षपको मासक्षपणादि तपस्तप्यते, धर्मकथी क्षीराश्रवादिलब्धिसम्पन्नतया वैराग्यजननीं धर्मकथां विदधाति, वादी परवादिनं निरुत्तरीकरोति । एवमादिभिः प्रभावकैः स्वग्रामीणोऽन्यग्रामीणश्च भूयान् जनः प्रव्रज्यायां परिणतः कृतः ॥
[ भा. ४६५२ ] नीरोगेण सिवेण य, वासावासासु निग्गया साहू । अन्ने वि य विहरंता, तं चेव य आगया खित्तं ॥
वृ-‘नीरोगेण' ग्लान्याभावेन ‘शिवेन च' राजदौस्थ्याद्युपप्लवाभावेन वर्षावासं कृत्वा ते साधवो निर्गताः । इह ‘वर्षावासे भूयान् काल एकत्र स्थीयते, ततः प्रभूतलोकस्योपशमो भवति' इत्यभिप्रायेण वर्षावासग्रहणं कृतम्, अन्यथा ऋतुबद्धेऽपि मासकल्पानन्तरमेव विहारः सम्भवति । एवं ते ततः क्षेत्राद् निर्गता अन्ये च साधवो विहरन्तस्तदेव क्षेत्रमागताः ।। तत्रावग्रहचिन्तां चिकीर्षुराह[ भा. ४६५३] खित्तोग्गहप्पमाणं, तद्दिवसं केति केतऽहोरत्तं ।
जं वेल निग्गयाणं, तं वेलं अन्नदिवसम्मि ।।
वृ- इह केचिदाचार्याः क्षेत्रावग्रहस्य कालप्रमाणं ब्रुवते यस्मिन् दिवसे ते निर्गतास्तमेवैकं दिवसमवग्रहः, तत ऊर्ध्वं रात्राववग्रहो व्यवच्छिद्यते । केचित्तु भणन्ति- अहोरात्रमवग्रहः, द्वितीयेऽह्नि सूर्योदयेऽवग्रहो व्यवच्छिद्यत इति भावः । सूरिराह द्वावप्येतावनादेशौ, अयं पुनरादेशः यस्यां वेलायां निर्गतास्तामेव वेलां यावदन्यस्मिन् दिवसेऽवग्रहो भवति, ततः परं व्यवच्छिद्यते । इत्थं कालतः प्रमाणमुक्तम् । क्षेत्रतस्तु सर्वतः सक्रोशं योजनमवग्रहः, तत ऊर्ध्वमनवग्रह इति ॥ [भा. ४६५४] खेत्तम्मिय वसहीय य, उग्गहो तहिं सहमग्गणा होइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org