________________
५६
बृहत्कल्प-छेदसूत्रम् - ३-३/१०३
वृ- अहिरण्या वयम्, नास्ति मूल्यम् । स ब्रूयात्-उपधिं प्रयच्छत। ततो येन साधुना स संस्तारक आनीतः तस्य सत्कमन्तप्रान्तमुपकरणं दर्शनीयम् । अन्यं वा फलकं यतनया मार्गयित्वा ददति । तच्च प्रथमतः शुद्धम्, तदभावे पञ्चकपरिहाण्या, राजकुले वा गत्वा व्यवहारः क्रियते- दत्त्वा दानमनीश्वर० ।। इति । एतेन "मग्ग दानं च ववहारे" त्ति पदं व्याख्यातम् ॥
[भा. ४६४७] सव्वे वि तत्थ रुंभृति, भद्दो मुल्लेण जाव अवरहे । एगं ठवे गमनं, सो वि य जावऽट्ठमं काउं ॥
वृ- कोऽपि राजवल्लभादिः सर्वानपि साधूंस्तत्र निरुणद्धि ततो यदि कश्चिद् यथाभद्रको मूल्येन मोचयति स न प्रतिषेद्धव्यः । अथ प्रतिषेधं कुर्वन्ति तदा चतुर्गुरु । अथ नास्ति मोचयिता ततोऽपराह्णं यावत् सर्वेऽपि सबाल-वृद्धास्तिष्ठन्ति । यदि न मुञ्चति तत एकं क्षपकादिकं स्थापयित्वा शेषाः सर्वेऽपि गच्छन्ति । सोऽपीशः स्थाप्यते योऽष्टमं कर्तुं समर्थो भवति । असमर्थस्थापने चतुर्गुरु । ततोऽसावष्टमं कृत्वा पलायते ।। [भा. ४६४८]
लद्धे तीरियकज्जा, तस्सेवऽ प्पेति जहव भुंजंति । भुद्धे व समत्ते, दोच्चोग्गह तस्स मूलाओ ॥
वृ- लब्धे संस्तारके यदि 'तीरितकार्याः' समाप्तप्रयोजनास्ततः 'तस्यैव' संस्तारकस्वामिनो अर्पयन्ति । अथ कार्यमसमाप्तं ततो भुञ्जते । अथ प्रभुणा-संस्तारकस्वामिना लब्धः साधूनां च कार्यमद्याप्यसमाप्तं ततस्तस्य मूलाद् यद् द्वितीयं वारमवग्रहोऽनुज्ञाप्यते एष सूत्रोक्तो द्वितीयावग्रहः ।। अथ द्वितीयपदमाह
[ मा. ४६४९ ] बितियं पभुनिव्विसए, नडुट्ठिय सुत्र मयमणप्पज्झे । असहू य रायदुट्टे, बोहिकभय सत्थ सीसे वा ॥
वृ- द्वितीयपदमत्र भवति - संस्तारकेण कार्यं समाप्तम्, योऽपि संस्तारकस्य प्रभुः स राज्ञा निर्विषय आज्ञप्तः, देशभङ्गे वा नष्टः, दुर्भिक्षे वा 'उत्थितः उद्वसितः, “सुन्ने” त्ति सपुत्र- दारः कुत्रायामन्त्रितः सन् गतो गृहं शून्यं सञ्जातम्, 'मृतो वा' कालगतः; एतानि गृहस्थकारणानि । अमूनि तु संयतकारणानि स साधुरसहिष्णुर्न शक्नोति गवेषयितुम्, राजद्विष्टे बोधिकभये वा अध्वशीर्षके वा सार्थवशगः । एतैः कारणैर्विप्रणष्टं संस्तारकं न गवेषयेत्, नच प्रायश्चित्तमाप्नुयात्।
मू. (१०४) जद्दिवसं समणा निग्गंथा सिज्जा-संधारयं विप्पजहंति तद्दिवसं अवरे समणा निग्गंथा हव्वमागच्छिज्जा स च्चेव उग्गहस्स पुव्वाणुत्रवणा चिट्ठइ अहालंदमवि उग्गहे ।।
वृ- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह
[ भा. ४६५० ] उग्गह एव उ पगतो, सागारियउग्गहाउ साहम्मी । रहितं व होइ खित्तं, केवतिकालेस संबंधो ॥
वृ- पूर्वसूत्रे तावदवग्रह एव 'प्रकृतः ' प्रस्तुतो वर्त्ते, "दोघं पि उग्गहं अनुन्नवित्ता" इति वचनात्, इदमपि प्रकृतसूत्रमवग्रहविषयम् । यद्वा पूर्वसूत्रद्वये सागारिकावग्रह उक्तः, इह तु सागारिकावग्रहादनन्तरं साधर्मिकावग्रहः प्रतिपाद्यते । अथवा पूर्वसूत्रेषु संस्तारकं प्रत्यर्प्य विहारः कर्तव्य इत्युक्तम्, अत्र तु विहारे कृते तैः साधुभिर्विरहितमपि तत् क्षेत्रं कियन्तं कालमवग्रहयुक्तं भवति ? इति निरूप्यते । एष सम्बन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org