________________
उद्देशक :
६:३, मूलं-१०३, [भा. ४६४० ]
५५
संस्तारकस्वामिनो यतनया सद्भावः कथनीयः । कथिते च भद्रको विसर्जयति-गच्छत नाहं किञ्चिदपि भणामि । यः प्रान्तः स संस्तारकं मार्गयति तत्रानुशिष्टि कर्त्तव्या । अथ नेच्छति तदा यतनया प्रान्तोपधिर्दातव्यः । अथ बलादेव सारोपधेर्ग्रहणं करति ततो राजकुले विवादः कार्यः । अमुमेवार्थं व्याख्याति[ भा. ४६४१]
परवयणाऽऽउट्टेउं, संथारं देहि तं तु गुरु एवं ।
आनेह भणति पंतो, तो नं दाहं न दाहं वा ॥
वृ- परः - प्रेरकस्तस्य वचनमत्र भवति - "आउट्टेउं " ति धर्मकथया संस्तारकस्वामी आवर्त्य याच्यते-तं संस्तारकं निर्देजं प्रयच्छ । गुरुराह एवं मायया याचमानस्य चतुर्गुरुकम्, भद्रकप्रान्तकृताश्च दोषा भवन्ति । प्रान्तो भणति - आनयत तं संस्तारकं ततो दास्यामि वा नवा ।। किञ्च[भा. ४६४२] दिजंतो वि न गहिओ, किं सुहसेज्जो इयाणि सो जाओ । हिय नट्ठो वा नूनं, अथक्कजायाइ सूएमो ॥
वृ- दीयमानोऽपि तदा निर्देजो न गृहीतः, किमसौ संस्तारकः इदानीं सुखशय्यः सञ्जातः ? । अनया ‘अथक्कयाच्ञया’ अकालप्रार्थनया 'सूचयामः' सूचां कुर्म स नूनं हृतो वा नष्टो वा ॥ [ भा. ४६४३ ] भद्दो पुन अग्गहणं, जाणंतो वा वि विप्परिणमेज्जा । किं फुडमेव न सीसइ, इमे हु अन्ने वि संथारा ॥
वृ- यः पुनर्भद्रकः स साधुषु 'अग्रहणम्' अनादरं कुर्यात्, यो वा जानाति 'संस्तारको हृतो नष्टो वा' इति स सम्यग्दर्शन-प्रव्रज्याद्यभिमुखो विपरिणमेत् - अहो ! मायाविनोऽमी । विपरिणतश्च ब्रूयात्- किं स्फुटमेवास्माकं 'न शिष्यते' न कथ्यते यथा संस्तारको नष्टः ?, किमेवं मायया याच्यते ?, इमे 'हु:' इति प्रत्यक्षमुपलभ्यमाना अन्येऽपि संस्तारकाः सन्ति ॥
[ भा. ४६४४ ] इइ चोयगदितं, पडिहंतुं सिस्सते से सब्भावो ।
भद्दो सो मम नट्टो, मग्गामि न तो पुनो दाहं ॥
वृ- 'इति' उपप्रदर्शने । एवं भद्रक-प्रान्तदोषोपदर्शनेन 'नोदकदृष्टान्तं' पराभिप्रायं प्रतिहत्य तत्त्वमुच्यते- 'तस्य' संस्तारकस्वामिनः सद्भावः 'शिष्यते' निवेद्यते । निवेदिते च भद्रको भणतिस संस्तारतो मम नष्टो न युष्माकम्, अद्य प्रभृति नाहं मार्गयामि, लब्धं तु तं पुनरपि युष्मभ्यं दास्यामि ||
1
[भा. ४६४५ ] तुब्भे वि ताव मग्गह, अहं पि झोसेमि मग्गह व अन्नं । वि भट्टा, वदंति पंतेऽनुसट्ठादी ।।
वृ-यूयमपि तावत् तं संस्तारकं मार्गयत, अहमपि तं "झोसेमि" त्ति गवेषयामि, अथ युष्माकं त्वरितं संस्तारकेण प्रयोजनं तदा यावदसौ लभ्यते तावदन्यं मार्गयत । यस्तु प्रान्तः स सद्भावे कथिते भणति-नष्टेऽपि संस्तारके यूयं मम न नष्टाः, यतो जानीथ ततः संस्तारकमानयत मूल्यं वा प्रयच्छत । एवं प्रान्ते ‘वदति ब्रुवाणेऽनुशिष्टि-धर्मकथा-विद्या-मन्त्रादि तथैव प्रयोक्तव्यम् ॥ तथाऽप्यतिष्ठति विद्यादीनामभावे वा मूल्यं मार्गयत इयं यतना
[ भा. ४६४६ ]
मोल्लं नत्थऽ हिरन्ना, उवधिं मे देह पंतदायणया । अन्नं व देंति फलगं, जयणाए मग्गिउं तस्स ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org