________________
५८
बृहत्कल्प-छेदसूत्रम् -३-३/१०४ ते विय पुरिसा दुविहा, रूवंजाणं अजाणं च ॥ वृ-इहावग्रहः क्षेत्रे वा भवेद् वसतौ वा । यद् इन्द्रकीलादिवर्जितं ग्राम-नगरादि तदिह क्षेत्रं मन्तव्यम्, तत्रावग्रहं प्रतीत्य शैक्षमार्गणा कर्तव्या, कस्या ऽऽभवति ? कस्य वा न ? इति विचारयितव्यमित्यर्थः। यत् पुनरिन्द्रकीलादियुक्तंतदवग्रहयोग्य क्षेत्रंनभवतीत्यक्षेत्रमभिधीयते, तत्र वसतिविषया शैक्षमार्गणा भवति, सा चोपरिष्टात् करिष्यते।क्षेत्रविषयंतावत् करोति-"ते वि य" इत्यादि, ये पुरुषास्तत्र क्षेत्रे प्रव्रज्यां ग्रहीतुमायातास्ते द्विविधाः-एके रूपं जानन्तोऽपरेऽजानन्तः ॥ इदमेव व्यक्तीकरोति[भा.४६५५] जाणंतमजाणंता, चउबिहा तत्थ होति जाणंता।
उभयं रूवं सई, चउत्थओ होइ जसकित्तिं॥ वृ-जानन्तोऽजानन्तश्चेति शैक्षा द्विविधाः । तत्र जानन्तस्तावत् चतुर्विधाः, तद्यथा-एकः शैक्षो विवक्षितक्षेत्रस्थितस्याचायदिः 'उभयं' रूपंशब्दंचजानाति, धर्मकथाश्रवणार्थं समागतो रूपेण स्वरेण च तमुपलक्षयतीत्यर्थः । द्वितीयो रूपंजानाति न शब्दम्, तृतीयः शब्दं न रूपम्, चतुर्थकः पुनर्यशःकीर्तिं जानाति । यशः-सर्वदिग्गामिनी प्रसिद्धि, सैवैकदिग्गामिनी कीर्तिः, यशउपलक्षिता कीर्तिः यशःकीर्तिरिति समासः।यस्तु रूप-शब्द-यशःकीर्तीनामेकमपिनजानाति सोऽजानान उच्यते ॥अथ द्वितीयभङ्गमादौ कृत्वा यथाक्रमममूनेव भङ्गान् व्याचष्टे[भा.४६५६] उच्चार-चेइगातिसु, पासति रूवं विनिग्गयस्सेगो।
रत्तिं उविंत शिंतो, कासगमादी सुणति सदं ।। वृ-उच्चारभूमि-चैत्यवन्दनादिषुकार्येषुविनिर्गतस्याचायदिरूपम् एकः' द्वितीयः शैक्षः पश्यति न पुनः स्वरेण जानीते, उपाश्रये तस्यानागमनात् । तृतीयस्तु शैक्षः 'कर्षकादि' कर्षकःकृषीवलस्तप्रभृतिकः सकलमपि दिवसं क्षेत्रादौ स्थित्वा रात्रौ' प्रदोषे गृहमुपागच्छन् प्रभातेच भूयोऽपि निर्गच्छन् धर्मकथायाः परिवर्तनाया वा शब्दं शृणोति न तु रूपमवलोकते॥ [भा.४६५७] चउथो पुन जसकित्तिं, सुणेइ सग्गाम-वसभवासी वा ।
उभयं रूवं सई, कित्ति वन जाणते चरिमो॥ वृ-चतुर्थस्तु शैक्षः स्वग्रामवासी प्रतिवृषभग्रामवासी वा दूरस्थः सन् न रूपं पश्यति न च धर्मकथादिशब्दंशृणोति, किन्तुलोकमुखेनतेषामाचार्यादीनां यशःकीर्तिशृणोति।यस्तु चरमः' अजानानः शैक्षः स रूप-शब्दात्मकमुभयं कीर्तिं च न जानाति, परं गृहवासनिर्वित्रतया प्रव्रज्यां ग्रहीतुमायातः । एवं वास्तव्यशैक्षः पञ्चविध उक्तः॥ [भा.४६५८] वायाहडो वि एवं, पंचविहो होइ आनुपुवीए।
एएसिं सेहाणं, पत्तेयं मग्गणा इणमो॥ वृ-'वाताहृतो नाम' आगन्तुकशैक्षः सोऽपि एवमेव' वास्तव्यशैक्षवत्पञ्चविधः 'आनुपूर्व्या' यथोक्तपरिपाट्या वक्तव्यः । अथैतेषां दशानामपिशैक्षाणां प्रत्येकं पृथक्पृथग् ‘इयम् एतेषु द्वारेषु ‘मार्गणा' विचारणा भवति ॥ तान्येव द्वाराण्यभिधित्सुः श्लोकचतुष्टयमाह[भा.४६५९] अव्वाघाए पुनो दाई, जावज्जीव पराजिए।
पढम-बिइयदिवसेसुं, कहं कप्पो उ जाणते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org