________________
बृहत्कल्प - छेदसूत्रम् -३-६/२०७
वृ-तस्या एवं ‘भूतरवावेशनं' भूतरवैः भूतप्रयुक्तासमञ्जसप्रलापैः आवेशनं यक्षावेशनं मत्वा भूतचिकित्सा कर्तव्या कथम् ? इत्याह- 'तस्य' भूतस्य नीचमुत्तमं च भावं ज्ञात्वा । कथं ज्ञात्वा ? इत्याह- 'स्वयं वा' कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः सम्यक् परिज्ञाय, अपिशब्दाद् अन्यस्माद्वा मान्त्रिकादेः सकाशाद् ज्ञात्वा । तस्याः क्रिया विधेया, यथा 'पूर्वं' क्षिप्तचित्ताया उक्ता ॥ इह यक्षाविष्टा किलोन्मादप्राप्ता भवति ततो यक्षाविष्टासूत्रानन्तरमुन्मादप्राप्तासूत्रमाह
३८६
मू. (२०८) उम्मायपत्तिं निग्गंथिं निग्गंथे गिण्हमाणे वा नातिक्कमइ ॥ वृ- अस्य व्याख्या प्राग्वत् ॥ अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह[ भा. ६२६३] उम्मातो खलु दुविधो, जक्खाएसो य मोहनिज्जो य । जक्खाएसो वृत्तो, मोहेन इमं तु वोच्छामि ॥
वृ- उन्मादः 'खलु' निश्चितं 'द्विविधः' द्विप्रकारः । तद्यथा-यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा । तत्र यः 'यक्षावेशः' यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु 'मोहेन' मोहनीयोदयेन; मोहनीयं नाम- येनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यातमनो विपर्यासापादनात् तेनोत्तरत्र “अहव पित्तमुच्छाए" इत्याद्युच्यमानं न विरोधभाक्; "इमो"त्ति अयम्-अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि । प्रतिज्ञातं निर्वाहयति
[भा. ६२६४] रूवंगं दवणं, उम्मातो अहव पित्तमुच्छाए । तद्दायणा निवाते, पित्तम्मि य सक्करादीनि ॥
वृ-रूपं च-नटदिराकृति अङ्गं च-गुह्याङ्गं रूपाङ्गं तद् दृष्टवा कस्या अप्युन्मादो भवेत् । अथवा 'पित्तमूर्च्छया' पित्तोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः । तत्र रूपाङ्गं दृष्टवा यस्या उन्मादः सञ्जातस्तस्यातस्य रूपाङ्गस्य विरूपावस्थां प्राप्तस्य दर्शना कर्तव्या । या तु वातेनोन्मादं प्राप्ता सा निवाते स्थापनीया । उपलक्षणमिदम्, तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते । 'पित्ते' पित्तवशादुन्मत्तीभूतायाः शर्करा - क्षीरादीनि दातव्यानि ॥ कथं पुनरसौ रूपाङ्गदर्शनेनोन्मादं गच्छेत् ? इत्याह
[ भा. ६२६५ ] दवण नडं काई, उत्तरवेउव्वितं मतणखेत्ता । तेनेव य रूवेणं, उड्डम्म कयम्मि निव्विन्ना ।।
वृ- काचिदल्पसत्त्वा संयती नटं दृष्ट्वा किंविशिष्टम् ? इत्याह- 'उत्तरवैकुर्विकम् ' उत्तरकालभाविवस्त्र - SSभरणादिविचित्रकृत्रिमविभूषाशोभितम्, ततः काचिद् 'मदनक्षिप्ता' उन्मादप्राप्ता भवेत् तत्रेयं यतना-उत्तरवैकुर्विकापसारणेन तेनैव स्वाभाविकेन रूपेण स नटस्तस्या निर्ग्रन्थ्यादर्श्यते । अथासौ नटः स्वभावतोऽपि सुरूपस्ततोऽसौ ऊर्ध्व-वमनं कुर्वन् तस्या दर्श्यते, ततः तस्मिन्नूर्ध्वे कृते सति काचिदल्पकर्मा निर्विन्ना भवति, तद्विषयं विरागं गच्छतीत्यर्थः । [भा. ६२६६ ] पत्रवितो उ दुरूवो, उम्मंडिज्जति अ तीए पुरतो तु । रूववतो पुन भत्तं, तं दिजति जेन छड्डेति ।
बृ- अन्यच्च यदि नटः स्वरूपतो दुरूपो भवति ततः स पूर्वं प्रज्ञाप्यते, प्रज्ञापितश्च सन् 'तस्याः ' उन्मादप्राप्तायाः पुरतः ‘उन्मण्ड्यते' यत् तस्य मण्डनं तत् सर्वमपनीयते ततो विरूपरूपदर्शनतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org