________________
२९२
बृहत्कल्प-छेदसूत्रम् -३-५/१५१ ततो नाग्रहीष्यत् । यः पुनरनुद्गतमस्तमितं वा ज्ञात्वा गृह्णाति गृहीत्वा वा भुङ्क्तेऽन्येषां वा ददातितस्यैकंस्थानकंवर्द्धयेत्, तंप्रतीत्य "तं जमाणे अन्नेसिंवादलमाणेआवजइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं" इत्युत्तरं सूत्रखण्डं वर्धयेदिति भावः ॥ अथ विवेचन-विशोधनपदे व्याचष्टे[भा.५८१३] सव्वस्स छड्डण विगिंचणा उमुह-हत्य-पादछूढस्स।
फुसण धुवणा विसोहण, सकिं व बहुसो व नाणतं॥ वृ-अनुदितमस्तमितं वा ज्ञात्वा यद् मुखे प्रक्षिप्तं तस्य ज्ञाते सति खेलमल्लके यत् प्रक्षेपणम्, यच हस्ते-पाणौ तस्य प्रतिग्रहे, यत् पात्रे-प्रतिग्रहे तस्य स्थण्डिले, एवं सर्वस्यापि यत् परिष्ठापनं सा विवेचना । यत् तु "फुसणं" हस्तेनामर्शनं 'धावनं' कल्पकरणं सा विशोधना । अथवा 'सकृत् एकशः परिष्ठापन-स्पर्शन-धावनानांकरणंविवेचना, एतेषामेव बहुशः करणं विशोधनम्। एतद् विवेचन-विशोधनयो नात्वमुक्तम् ॥अथ “नो अइक्कमइ"त्ति पदं व्याख्याति[भा.५८१४] नातिकमती आणं, धम्म मेरं वरातिभत्तंवा।
अत्तटुंगागी वा, सय मुंजे सेस देजा वी॥ वृ-एवं विविञ्चविशोधयन्वातीर्थकृतामाज्ञांनातिक्रामति।अथवा श्रुतधर्मचारित्रमर्यादां रात्रिभक्तव्रतं वा नातिकामति । "तं भुंजमाणे अनेसि वा दलमाणे" त्ति पदद्वयं व्याख्यायते"अत्तट्टे" इत्यादि, 'आत्मार्थिकः' आत्मलाभाभिग्रही कारणे वा य एकाकी स स्वयं भुङ्क्ते नान्येषां ददाति । 'शेषः पुनः' अनात्मलाभी अनेकाकी वा स अन्येषामपि दद्यात् स्वयमपि भुञ्जीत ॥गतंप्रथमं संस्तृतनिर्विचिकित्ससूत्रम् । अथ द्वितीयंसंस्तृतविचिकित्ससूत्रं व्याख्याति[भा.५८१५] एवं वितिगिच्छो वी, दोहि लहू नवरितेतु तव-काले।
तस्स पुन हवंति लता, अट्ठ असुद्धा न इतरातो॥ वृ-विचिकित्सते-'किं उदितो रवि? उतअनुदितः?' इत्यादिसंशयंकरोतीति विचिकित्सः, सोऽप्येवमेव वक्तव्यः । नवरम्-यानि तस्य तपोऽर्हाणि प्रायश्चित्तानि तानि तपसा कालेन च लघुकानि । 'तस्य च' विचिकित्सस्य पुनरशुद्धा एव केवला अष्टौ लता भवन्ति न 'इतराः' शुद्धाः, सङ्कल्पस्य शङ्कितत्वेन प्रतिपक्षाभावात् ॥ कथं पुनरसौ शङ्कां करोति? इत्याह[भा.५८१६] अनुदिय उदिओ किं नुहु, संकप्पो उभयहा अदिटेउ।
धरति न वत्ति व सूरो, सो पुन नियमा चउण्हेक्को। कृ'उभयथा उदयकालेऽस्तमनकालेवाअभ्र-हिमादिभिकारणैरष्टैआदत्ये सङ्कल्पोभवति, किमनुदितउदितो वा रवि? अस्तमनकालेऽपि-सूर्योध्रियतेन वा? इतिशङ्का भवति । स पुनः सूर्यो नियमादनुदित उदितोऽस्तमितोऽनस्तमितो वा ? इति चतुर्णा विकल्पानामेकतरस्मिन् वर्तते। भङ्गाः पुनरत्रेत्थमुच्चारणीयाः-उदयं प्रतीत्यविचिकित्सेमनःसङ्कल्पेसतिविचिकित्सितगवेषी विचिकित्सितग्राही विचिकित्सितभोजी, एवमष्टौ भङ्गाः; अस्तमनमपि प्रतीत्यैवमेवाष्टौ भङ्गाः। द्वयोरप्यष्टभङ्गयोःप्रथम-द्वितीय-चतुर्था-ऽष्टमा भङ्गाघटमानकत्वाग्राह्याः, शेषाश्चत्वारोऽग्राह्याः। गतं द्वितीयं संस्तृतविचिकित्ससूत्रम् । अथ तृतीयमसंस्तृतनिर्विचिकित्ससूत्रं व्याचिख्यासुराह
[भा.५८१७] तव-गेलन-ऽद्धाणे, तिविहो तु असंथडी विहे तिविहो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org