________________
१५२
बृहत्कल्प-छेदसूत्रम् -३-४/११३
[भा.५१२०] तइयस्स दोनि मोत्तुं, दव्वे भावे य सेस भयणा उ ।
पडिसिद्ध लिंगकरणं, कारणे अन्नत्थ तत्थेव॥ वृ-इह “साधम्मियेतणियंकरेमाणे" इत्यादिसूत्रक्रमप्रामाण्येनहत्थायालस्तृतीय उच्यते, स त्रिधा-हस्तातालो हस्तालम्बोऽर्थादानं चेति। तत्राऽऽद्ये द्वे पदे मुक्त्वा यत् शेषम्-अर्थादानाख्यं तृतीयं पदं तत्र द्रव्यतो भावतश्च लिङ्गप्रदाने भजना भवति । कथम् ? इत्याह-“पडिसिद्ध" इत्यादि, उत्तरत्र “कारणे" इत्यभिधास्यमानत्वाद् इह निष्कारणमिति गम्यते, ततो निष्कारणे प्रतिषिद्धमादानकारिणो लिङ्गकरणं' द्रव्यलिङ्गस्य मावलिङ्गस्य वा तत्र क्षेत्रे प्रदानम्। 'कारणे तु' भक्तप्रत्याख्यानप्रतिपत्तिलक्षणेऽन्यत्र वा तत्र वाऽनुज्ञातमेव ॥
एषापुरातना गाथा, अत एनां विवरीषुराह[भा.५१२१] हत्थातालो ततिओ, तस्स उ दो आइमे पदे मोत्तुं।
अत्थायाणे लिंगं, न दिति तत्थेव विसयम्मि॥ वृ-हस्तातालः सूत्रक्रमप्रामाण्येन तृतीयः, तस्य द्वे आदिमे हस्ताताल-हस्तालम्बलक्षणे पदे मुक्त्वा यद् अर्थादानाख्यं पदं तत् वर्तमानस्य तत्रैव 'विषये' देशे लिङ्गं न ददति ॥
सच अर्थादानकारी गृहिलिङ्गीवा स्यादवसनलिङ्गी वा। तत्र[भा.५१२२] गिहिलिंगस्स उ दोन्नि वि, ओसन्ने न दिति भावलिंगंतु।
दिज्जंति दो वि लिंगा, उवट्ठिए उत्तिमट्ठस्स ॥ वृ-यो गृहिलिङ्गी प्रव्रज्यार्थमभ्युत्तिष्ठते तस्य द्वेअपि' द्रव्य-भावलिङ्गे तस्मिन् देशेन दीयेते। यः पुनरवसनस्तस्य द्रव्यलिङ्गं विद्यत एव परं भावलिङ्गं तस्य तत्रैव न ददति । यदा पुनरसावुत्तमार्थप्रतिपत्त्यर्थमुपतिष्ठते तदा तस्मिन्नपि देशे द्वयोरपि गृहस्था-ऽवसनयोढे अपि लिङ्गे दीयेते॥अथवेदं कारणम्[भा.५१२३] ओमा-ऽसिवमाईहि व, तप्पिस्सति तेन तस्स तत्येव ।
न य असहाओ मुच्चइ, पुट्ठोय भणिज्ज वीसरियं ॥ वृ-अवमा-ऽशिव-राजद्विष्टादिषुवा समुपस्थितेषुगच्छस्य प्रतितर्पिष्यति' उपग्रहं करिष्यति तेन कारणेन तत्रैव क्षेत्रे तस्य लिङ्गं प्रयच्छन्ति । तत्र चेयं यतना-“न य असहाओ" इत्यादि, स तत्रारोपितमहाव्रतः सन् ‘असहायः' एकाकी न मुच्यते, लोकेन च निमित्तं पृष्टो भणति-विस्मृतं मम साम्प्रतं तद् निमित्तमिति॥अथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयति[भा.५१२४] साहम्मिय-ऽन्नधम्मियतेनेसु उ तत्थ होतिमा भयणा।
लहुगो लहुगा गुरुगा, अणवठ्ठप्पो व आएसा॥ वृ-साधर्मिकस्तैन्या-ऽन्यधार्मिकस्तैन्ययोस्तत्र तावदियं भजना' प्रायश्चित्तरचना भवतिआहारं स्तेनयतो लघुमासः, उपधिं स्तेनयतश्चतुर्लघु, सचित्तं स्तेनयतश्चतुर्गुरवः । आदेशेन वाऽनवस्थाप्यम्॥ [भा.५१२५] अहवा अनुवज्झाओ, एएस पएसु पावती तिविहं ।
तेसुंचेव पएसुं, गणि-आयरियाण नवमंतु ॥ वृ- अथवा 'अनुपाध्यायः' य उपाध्यायो न भवति किन्तु सामान्यभिक्षु सः ‘एतेषु पदेषु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org