SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् -३-४/११६ १६८ [ भा. ५२०३ ] विनयाहीया विज्जा, देति फलं इह परे य लोगम्मि । न फलंति विनयहीना, सस्साणि व तोयहीणाई ॥ वृ. विनयेनाधीता विद्या इह परत्र च लोके फलं ददति, जनपूजनीयता- यशः प्रवादलाभादिकमैहिकं निश्रेयसादिकं चाऽऽमुष्किकं फलं ढौकयन्तीति हृदयम् । विनयहीनास्तु ता अधीता न फलन्ति, सस्यानीव तोयहीनानि यथा जलमन्तरेण धान्यानि न फलन्ति ॥ अथ विकृतिप्रतिबद्धमाह [ भा. ५२०४] रसलोलुताइ कोई, विगतिं न मुयति दढो वि देहेणं । अब्भंगेण व सगडं, न चलइ कोई विना तीए ॥ - रसलोलुपतया कश्चिद् देहेन ढोऽपि विकृतिं न मुञ्चति स वाचयितुमयोग्यः । कश्चित् पुनरभ्यङ्गेन विना यथा शकटं न चलति तथा 'तया' विकृत्या विना निर्वोढुं न शक्नोति तस्य गुरूणांमनुज्ञया विधिना गृह्णतो वाचना दातव्येति ॥ किञ्च [ भा. ५२०५ ] उस्सग्गं एगस्स वि, ओगाहिमगस्स कारणा कुणति । गिण्हति व पडिग्गहए, विगतिं वर में विसर्जिता । वृ- योगं वहमानः कश्चिदेकस्याप्यवगाहिमस्य कारणाद् विकृत्यनुज्ञापनाविषयं कायोत्सर्ग करोति । प्रतिग्रहे वा विकृतिं गृह्णाति, वरममुनाऽप्युपायेन मे विकृतिं विसर्जयितारः ॥ एवं मायां कुर्वतः किं भवति ? इत्याह [ भा. ५२०६] अतवो न होति जोगो, न य फलए इच्छियं फलं विज्जा । अवि फलति विउलमगुणं, साहनहीना जहा विजा || वृ- 'अतपाः' तपसा विहीनः 'योगः' श्रुतस्योद्देशनादिव्यापारों न भवति । न च तपसा विना गृह्यमाणा 'विद्या' श्रुतज्ञानरूपा 'ईप्सितं' मनोऽभिप्रेतं फलं फलति, 'अपि' इति अभ्युच्चये, प्रत्युत विपुलम् 'अगुणम्' अनर्थं फलति । यथा साधनहीना विद्या, यस्याः प्रज्ञप्तिप्रभृतिकाया विद्याया उपवासादिको यः साधनोपचारः सा तमन्तरेण गृह्यमाणेति भावः ॥ अथाव्यवशमितप्राभृतं व्याचष्टे [ भा. ५२०७ ] अप्पे वि पारमाणिं, अवराधे वयति खामियं तं च । बहुसो उदीरयंतो, अविओसियपाहुडो स खलु ॥ वृ- 'अल्पेऽपि' परुषभाषमादावपराधे “पारमाणि" परमं क्रोधसमुद्धातं यो व्रजति, 'तच ' अपराधजातं क्षामितमपि यो बहुश उदीरयति स स्वल्वव्यवशमितप्राभृत उच्यते ॥ अस्य वाचने दोषानाह [मा. ५२०८ ] दुविधो उ परिचाओ, इह चोदण कलह देवयच्छलना । परलोगम्मिय अफलं, खित्तम्मि व ऊसरे बीजं ॥ दृ- दुर्विनीतादेरपात्रस्य वाचनादाने 'द्विविधः परित्यागः' इह-परलोकभेदाद् भवति । तत्रेलोकपरित्यागो नाम स यदि स्मारणादिना प्रेर्यते तदा कलहं करोति, अपात्रवाचनेन च प्रमत्तं प्रान्तदेवता छलयेत् । परलोके तु परित्यागः तस्य श्रुतप्रदानं 'अफलं' सुगति-बोधिकालाभादिकं पारत्रिकं फलं न प्रापयति, ऊषर इव क्षेत्रे बीजमुप्तं यथा निष्फलं भवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy