________________
उद्देशकः ४, मूलं-११६, [भा. ५१९८]
१६७ वृ-ये पूर्वसूत्रे षट् प्रव्राजनादयो द्रव्यकल्पाः प्रतिपादिताः तेषां मध्यादेकां ग्रहणशिक्षापणां मुक्त्वा शेषाणि स्थानानि अविनीतादीनांत्रयाणां नैकान्तेन प्रतिषिद्धानि । ग्रहणशिक्षाप्रतिषेधार्थ तु प्रस्तुतं सूत्रमारभ्यते । अयमपरः सम्बन्धस्य 'कल्पः' प्रकारो भवति ।। अनेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते 'वाचयितुं' सूत्रं पाठयितुमर्थं वा श्रावयितुम् । तद्यथा-'अविनीतः' सूत्रा-ऽर्थदातुर्वन्दनादिविनयरहितः। विकृतिप्रतिबद्धः'घृतादिरसविशेषगृद्धः,अनुपघानकारीति भावः ।अव्यवशमिम्-अनुपशान्तंप्राभृतमिव प्राभृतं-नरकपालकौशलिकंतीव्रक्रोधलक्षणंयस्यासी अव्यवशमितप्राभृतः । एतद्विपरीतास्तु त्रयोऽपि कल्पन्ते वाचयितुम् । तद्यथा-विनीतो नोविकृतिप्रतिबद्धो व्यवशमितप्राभृतश्चेति सूत्रार्थः ।। अथ नियुक्तिविस्तरः[मा.५१९९] विगइ अविनीए लहुगा, पाहुइ गुरुगा य दोसा आणादी।
सोय इयरे य चत्ता, बितियं अद्धाणमादीसु॥ कृ-विकृतिप्रतिबद्धमविनीतंच वाचयतश्चतुर्लघुकाः।अव्यवशमितप्राभृतंवाचयतश्चतुर्गुरुकाः। आज्ञादयश्च दोषाः । स च 'इतरे च' साधवः परित्यक्ता भवन्ति । तत्र स तावद् विनयमकुर्वन् ज्ञानाचारविराधयतीतिकृत्वापरित्यक्तः, इतरेच तमविनीतंदृष्टवविनयंन कुर्वन्तीतिपरित्यक्ताः। द्वितीयपदमत्र भवति-अध्वादिषु वर्तमानानां योऽविनीतादिरप्युपग्रहं करोति स वाचनीयः । एषा नियुक्तिगाथा । एनामेव भाष्यकृद् विवृणोति[भा.५२००] अविनीयमादियाणं, तिण्ह विभयणा उ अट्ठिया होति।
पढमगभंगे सुत्तं, पढमं बितियं तु चरिमम्मि । वृ-अविनीतादीनांत्रयाणामपि पदानांअष्टिका भजना भवति, अष्टभङ्गीत्यर्थः। यथा-अविनीतो विकृतिप्रतिबद्धोऽव्यवशमितप्राभृतः १अविनीतो विकृतिप्रतिबद्धो व्यवशमितप्राभृतः २ इत्यादि यावदष्टमो भङ्गो विनीतो विकृत्यप्रतिबद्धो व्यवशमितप्राभृतश्चेति । अत्र च प्रथमे भङ्गे प्रथमसूत्रं निपतति, 'चरमे' अष्टमे भङ्गे द्वितीयं सूत्रमिति ॥अथ त्रयाणामपि वाचने यथाक्रमंदोषानाह[भा.५२०१] इहरा वि ताव थब्मति, अविनीतो लंभितो किमुसुएण।
मा नट्ठो नस्सिहिती, खए वखारावसेओ तु॥ वृ-'इतरथाऽपि' श्रुतप्रदानमन्तरेणापितावदविनीतः स्तभ्यते' स्तब्धो भवति किं पुनः श्रुतेन लम्भितः सन्?, महिमानमिति शेषः। अतः स्वयं नष्टोऽसौ अन्यानपिमा नाशयिष्यति, क्षते वा क्षारावसेको मा मूदिति कृत्वा नासौ वाचनीयः॥अपिच[भा.५२०२] गोजूहस्स पडागा, सयं पयातस्स वड्डयति वेगं।
दोसोदए यसमणं, न होइन निदानतुलं वा॥ वृ-इह गोपालको गवामग्रतो मूत्वा यदा पताकां दर्शयति तदाताः शीघ्रतरं गच्छन्तीति श्रुति; ततो गोयूथस्य स्वयं प्रयातस्ययथापताका वेगंवर्धयतितथादुर्विनीतस्यापिश्रुतप्रदानमधिकतरं दुर्विनयं वर्धयति । तथा दोषाणां-रोगाणामुदये 'चः' समुच्ये 'शमनम्' षधं न दीयते, यतश्च निदानादुत्थितो व्याधितत्तुल्यं-तत्सद्दशमपि वस्तु रोगवृद्धिभयान दीयते; यद्वा दोषोदये दीयमानं शमनंन ननिदानतुल्यं भवति, किन्तु भवत्येव, ततो न दातव्यम्; एवमस्यापि दुर्विनयदोषभरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देवम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org