________________
६४
बृहत्कल्प-छेदसूत्रम् -३-३/१०४ [भा.४६८६] वायाहडोतु पुट्ठो, भणाइ अमुगदिन अमुगकालम्मि।
एतेहि दिक्खितोऽहं, तुम्हे विसुणामि तत्थाऽऽसी। वृ-तुशब्दस्य विशेषणार्थतया यो वाताहतो यश-कीर्तेरप्यज्ञायकः सपृष्टो भणति-'अमुकदिने' प्रतिपदादौ अमुष्मिन् काले-मार्गशीर्षादौ मासे दीक्षितोऽहमेतैः, दीक्षानन्तरं च शृणोमि, यथायूयमपि तत्रासीरनिति॥ [भा.४६८७] एमेव य जसकित्तिं, जाणंतो जो यतं न जाणाति ।
तस्स वितहेव पुच्छा, पावयणी वा जदा जातो॥ वृ-एवमेव वास्तव्योऽपि यो यश-कीर्तिं जानाति यश्चतांन जानाति तस्यापि तथैव स्नानादौ यदा पृच्छा कृता भवति तदा ज्ञायते । यदा वाऽसौ 'प्रावचनिकः' बहुश्रुतो जातः तदा स्वयमेव जानाति-नाहममीषामाभाव्यः॥
एवं तावत् सचित्तविषयो विधिरुक्तः । अथाचित्तादिविषयं तमेवातिदिशन्नाह[भा.४६८८] एमेव य अचित्ते, दुविहे उवधिम्मि मीसते चेव ।
पुच्छा अपुव्वमुवहिं, दटूण अनुजुभूयाणं॥ वृ-एवमेवाचित्ते द्विविधे' ओधोपग्रहोपधिभेदा द्विप्रकारे उपधौ ‘मिश्रकेच' सोपधिकशैक्षे विधिमन्तव्यः । कथं पुनरसावाभाव्योऽनाभाव्यो वा ज्ञायते? इत्याह-'अपूर्वं' सारतरमुपधिं दृष्टवा अनृजुभूतानां तेषामन्तिके पृच्छा भवति, क्षेत्रिकैरथं कदा कुत्र वा गृहीतः ?' इत्येवं ते प्रष्टव्या इति भावः॥ [भा.४६८९] एवं वासावासे, उडुबद्धे पंथे जत्थ वा ठाति।
सव्वत्थ होति उग्गहो, केसिंचि पतीवदिद्रुतो॥ वृ- एवं वर्षावासे ऋतुबद्धे वा विधिर्मन्तव्यः । एतच्च सचित्तमङ्गीकृत्योक्तम् । अचित्ते तु वर्षावासे वा ऋतुबद्धे वा मासद्वयं दिवसपञ्चकं च पूर्वावग्रह इति, पथि वा व्रजतां यत्र काप्याचार्यस्तिष्ठतितत्रसर्वतः सक्रोशंयोजनमवग्रहो भवति, तत्राप्येवमेव सचित्तादीनामाभाव्याऽनाभाव्यविधिरवसातव्यः। केषाञ्चिदाचार्याणामयमभिप्रायः-मार्गंगच्छतां पृष्ठतोवा नास्त्यवग्रहः; अयं चानादेशः । कुतः ? इत्याह-प्रदीपदृष्टान्तोऽत्र भवति । यथा हि प्रदीपः सर्वतः प्रकाशयति नैकामपि दशं प्रकाशशून्यां करोति, एवमवग्रहोऽपि सर्वतो भवति, न कुत्रचिन्न भवत्यपीति ॥ एवं तावत् क्षेत्रे सचित्तादिविषयो विधिरुक्तः । अथाक्षेत्रे तमेवातिदिशति[भा.४६९०] अक्खित्ते वसधीए, जाणग जाणाविए विएमेव ।
उज्जुगमनुज्जुगे या, सो चेव गमो हवइ तत्थ ॥ वृ- 'अक्षेत्रे' इन्द्रकीलादियुक्ते नगरादौ सक्रोशं योजनमवग्रहो न भवति, किन्तु तत्र यस्यां वसतौ यः पूर्वं स्थितस्तस्यां सचित्तादिकं यदुपतिष्ठते तत् तस्य आभवति, न पश्चादागतानाम् । तत्रापि य एव क्षेत्रे गम उक्तः स एव सर्वोऽपि ज्ञायके ज्ञापितेच ऋजुकेऽनृजुकेच वक्तव्य इति। अथ “कथं कल्पोऽभिधारणे" इति निर्वचन्नाह[भा.४६९१] अनिदिट्ठ सन्नऽसन्नी, गहिता-गहिए य ओह सच्छंदो।
निद्दिढ लिंगसहितो, सन्नी तस्सेव नऽनस्स ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org