SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उद्देशकः३, मूलं-१०४, [भा. ४६७९] ६३ तथा ज्ञायके ज्ञापिते चसमुदिताश्चत्वारः प्रकारा भवन्ति, तद्यथा-ज्ञायकंप्रथमदिवसे न प्रेषयति १, द्वितीये तमेव न प्रेषयति, २, एवं ज्ञापितस्यापि द्वौ प्रकारौ । एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतंवाऽप्रेषयतश्चत्वारोऽनुद्धातामासाः, नच तान् शिष्यान् लभते, कुलस्थविरादिभिर्बलात् क्षेत्रिकाणां दाप्यते इत्यर्थः ।।अथात्रैव प्रायश्चित्तवृद्धिमाह[भा.४६८०] सत्तरत्तं तवो होती, ततो छेदो पहावई । छेदेन छिनपरियाए, तओ मूलं तओ दुगं ।। वृ-प्रागिव द्रष्टव्यम् ॥ प्रकारद्वादशकमाह[भा.४६८१] तरुणे मज्झिम थेरे, तद्दिन बितिए य छक्कगं इक्कं । . एमेव परग्गामे, छक्कं एमेव इत्थीसु॥ वृ-तरुण-मध्यम-स्थविरान्प्रत्येकंतद्दिवसे द्वितीयदिने वाऽप्रेषयत एकंप्रकारषट्कंभवति, एतच्च स्वग्रामविषयम्, परग्रामेऽपि एवमेव प्रकारषट्कम्; सर्वेऽप्येते द्वादश प्रकाराः पुरुषेषु भणिताः । एवमेव च स्त्रीष्वपि प्रकारद्वादशकं भवति। [भा.४६८२] पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होति । एमेव य ससिहम्मिय, जाणग जाणाविए भयणा ॥ वृ- एते द्वे द्वादशके पुरुष-स्त्रीणां मुण्डितविषये भवतः । एवमेव च सशिखाकेऽपि शैक्षे द्वादशकद्वयम् । तदेवं ज्ञायके ज्ञापिते च प्रत्येकं "भयण"त्ति भङ्गकर्विकल्पास्तेषां चत्वारि द्वादशकानि भवन्ति ।। अथवा[भा.४६८३] अव्वाहए पुनो दाति, जावजीवपरादिए। तद्दिन बीयदिने या, सग्गामियरे य बारसहा ॥ वृ-अव्याहतः पुनरागतप्रव्रजितोयावज्जीवपराजितश्चेतित्रयः शैक्षाः। एतान्तद्दिनेद्वितीयदिने वाऽप्रेषयतः प्रकारषट्कम् । एतच्च स्वग्रामे 'इतरस्मिंश्च परग्रामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति ॥अथ ऋजु-अनृजुलक्षणमाह[भा.४६८४] जाणंतमजाणंते, नेइ व पेसेइ वा अमाइल्लो । सो चेव उज्जुओ खलु, अनुज्जुतो जो न अप्पेति ॥ वृ-जानतो अजानतो वा शैक्षान् योऽमायावी सक्षेत्रिकाणांसमीपे स्वयं नयति वा परहस्तेन वाप्रेषयति स एव ऋजुक उच्यते। अनृजुस्तु सोऽभिधीयते यो नार्पयति न वा प्रेषयति ।।अर्थते वास्तव्या वाताहृता जानन्तोऽजानन्तो वाऽनृजुभिः प्रव्राजिताः कथं पश्चात् परिज्ञायन्ते? उच्यतेस्नाना-ऽनुयानादिषुयत्र मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुप्रव्रजितो वाताहृतः पृष्टः-कथं भवान् प्रव्रजितः?,स भणति[भा.४६८५] तुब्म च्चिय नीसाए, मि आगतो दिक्खितो बला नेहिं । अम्हे किमपव्वइया, पुट्ठा व न ते परिकहेंसु॥ वृ- युष्माकमेव निश्रया अहमागतः अमीभिश्च बलाद् दीक्षितः, मया भृशममी पृष्टास्तत एभिराख्यातम्-वयं किं प्रव्रजिता न भवामोयदेवंतान्मार्गयसि? यद्वानतेपृष्टाः सन्तःकिमप्याख्यातवन्तः । एवं रूप-शब्द-यशः कीर्तिज्ञो वक्ति । यस्त कीर्तिमपि न जानाति स ब्रूयात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy