SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ बृहत्कल्प - छेदसूत्रम् - ३-३/१०४ बहुविग्घो हु मुहुत्तो, मा अवरहं पडिच्छाहि ॥ वृ- भो भव्याः ! त्वरध्वं धर्मं कर्तुम्, मा क्षणमपि प्रमादं कुरुध्वम् । कुतः ? इत्याह-बहव:शूल-विष-विसूचिका-शस्त्रघाता-ऽग्निदाहादिभेदादनेके विघ्नाः - जीवितान्तराया यत्रासौ बहुविघ्नः, हुशब्दो यस्मादर्थे, अपिशब्दस्य चानुक्तस्यापि गम्यमानत्वाद् यस्माद् मुहूर्त्तोऽपि बहुविघ्नः, आस्तां प्रहर-दिवसादि अतो महाभाग ! मा प्रव्रज्याग्रहणेऽपराह्नमपि प्रतीक्षिष्ठाः । एवमनुशासनं कृत्वा चतुर्भिर्नवकैस्तथैव प्रेषणीयम् । गतं "पणो दाई” ति द्वारम् । अथ यावज्जीवपराजितद्वारमाह[भा. ४६७६ ] बहुसो उवट्ठियस्सा, विग्घा उट्ठिति जज्ञ्जिय जितो मि । अनुसासन पत्थवणं, नवगा य भवे समुंडियरे ॥ वृ- क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयात्- 'बहुशः' अनेकशः प्रव्रज्याग्रहणायोपस्थितोऽहम्, परं वारंवारं विघ्ना नवनवा उत्तिष्ठन्ते, अतो “जज्जियं" यावज्जीवमहं विघ्नैर्जितोऽस्मि, यदेवं ते साधवो विहृतवन्तः, अतः परं तेषु समागतेषु प्रव्रजिष्यामि । एवं ब्रुवाणस्यानुशासनं कर्त्तव्यम् भद्र ! साम्प्रतं तव चारित्रावारककर्मणानुदयो वर्तते, अतो मा प्रमादीः, को जानाति भूयोऽपि तेषामुदयो भवेत् ? ; आवश्यकामिहितश्च कूर्मचर्मध्टान्तस्तत्पुरतः प्ररूपणीयः । एवमनुशिष्य प्रस्थापनं कर्त्तव्यम् । तत्र च तथैव मुण्डितेतरयोः प्रत्येकं चत्वारो नवका भवन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतानां कल्पो विधीयते ॥ अथ "ज्ञापिते कथं कल्पो वास्तव्ये वाताहृतेऽपि च' इति द्वारमाह [भा. ४६७७] वाताहडे वि नवगा, तहेव जाणाविए य इयरे य । एमेव य वत्थव्वे, नवगाण गमो अजाणते ।। वृ- वाताहतो द्विधा - ज्ञापित इतरश्च । यः क्षेत्रिकाणां यशःकीर्त्तिमपि न जानाति स आगन्तुकसाधुभि 'त्वमस्माकं नाभवसि ये गतास्तेषामेवाभवसि' इति सद्भावावगमं कारितो ज्ञापित उच्यते, इतरो नाम-यशः कीर्त्तिज्ञः । तत्र ज्ञापिते 'इतरस्मिंश्च' वाताहते प्रव्रजितुमायाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शैक्षो यः क्षेत्रिकाणां यशः कीर्त्तिमपि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः ।। अथ वास्तव्यो वाताहृतो वा यशः कीर्त्तिमपि न जानाति स कीशो भवेत् ? उच्यते [भा. ४६७८ ] वत्थव्वे वायाहड, सेवग परतित्थि वणिय सेहे य । सव्वेते उज्जुगो अप्पिणाइ मेलाइ वा जत्थ ।। 9 वृ- वास्तव्यो वा वाताहृतो वा यो रजकुलसेवको यो वा परतीर्थिको यश्च वणिग् एते असन्निहितत्वेन यश-कीर्त्तिमपि गुरूणां न जानीयुः परं प्रथमद्वितीयदिवसयोः प्रव्रजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः । अथ ऋजु अनृजुद्वारचिन्ता क्रियते य आचार्य ऋजुर्भवति स सर्वानप्येतान् क्षेत्रिकाणामर्पयति, यत्र वा क्षेत्रिका भवन्ति तत्र सङ्घाटकादिभि प्रकारैः प्रेषयित्वा तैः सह मीलयति ॥ [भा. ४६७९ ] माइले बारसगं, जाग जाणाविए य चत्तारि । वत्थव्वे वायाहड, न लभति चउरो अनुग्धाया ॥ वृ-यस्तु 'मायावी' अनृजुः स न प्रेषयति, तत्र च प्रकाराणां द्वादशकं भवति, तच्चाग्रे वक्ष्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy