________________
१९२
बृहत्कल्प-छेदसूत्रम् -३-४/१२३ दावए, एगंते बहुफासुए पएसे पडिलेहित्ता पमजित्ता परिट्टवेयव्वे सिया॥
दृ-अस्य सम्बन्धमाह[भा.५३१५] आहार एव पगतो, तस्स उगहणम्मि वनिया सोही।
आहच पुन असुद्धे, अचित्त गहिए इमं सुत्तं॥ वृ-आहार एवानन्तरसूत्रे प्रकृतः । 'तस्य च' आहारस्य ग्रहणे शोधिर्वर्णिता, यथा शुद्ध आहारो ग्रहीतव्यः तथा भणितमिति भावः । “आहच" कदाचित् पुनरशुद्धो अचित्त आहारो गृहीतो भवेत् तत्र को विधिः? इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते ॥ [भा.५३१६] अहवण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहे।
इह पुन अचित्तदव्वं, वारेति अनेसियंजोगो॥ वृ-अथवा पूर्वतरसूत्रेषु “तओ नो कप्पंति पव्वावित्तए" इत्यादिषु सचित्तद्रव्यं 'द्रव्यादिप्रतिषेधेन' द्रव्यं-पण्डकादिकं तदाश्रित्य प्रतिषेधो द्रव्यप्रतिषेधस्तेन, आदिशब्दाद् “दुढे मूढे' इत्यादिषुच भावप्रतिषेधेन प्रतिषिद्धम् । ‘इह पुनः' प्रकृतसूत्रेऽचित्तद्रव्यमनेषणीयं वारयति। एष 'योगः' सम्बन्धः॥ अनेनायातस्यास्य व्याख्या-निर्ग्रन्थेन च गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टेन “अन्नलरे"त्ति उद्गमोत्पादनैषणादोषाणामन्यतरेण दोषेण दुष्टम् ‘अनेषणीयम्' अशुद्धम् ‘अचित्तं' निर्जीवं पान-भोजनमनाभोगेन प्रतिगृहीतं स्यात्, तच्चोत्कृष्टं न यतस्ततः परित्यक्तुंशक्यते, अस्तिचात्र कश्चित् 'शैक्षतरकः' लघुतरः अनुपस्थापितकः' अनारोपितमहाव्रतः कल्पते "से" 'तस्य' निर्ग्रन्थस्य तस्मै शैक्षाय दातुमनुप्रदातुंवा । तत्र दातुंप्रथमतः, 'अनुप्रदातुं' तेनान्यस्मिन्नेषणीये दत्ते सति पश्चात् प्रदातुम् । अथ नास्त्यत्र कोऽपि शैक्षतरकोऽनुपस्थापितकस्ततस्तद्दत्ते सति पश्चात्प्रदातुम्।अथ नास्त्यत्र कोऽपिशैक्षतरकोऽनुपस्थापितकस्ततस्तद् नैव आत्मना भुञ्जीत न वाऽन्येषां दद्यात् किन्तु एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रभृज्य च परिष्ठापयितव्यं स्यादिति सूत्रार्थ ॥अथ नियुक्तिविस्तरः[भा.५३१७] अन्नतरऽनेसणिज्जं, आउट्टिय गिण्हणे तुजंजत्थ।
अनभोग गहित जतणा, अजतण दोसा इमे होति॥ वृ-'अन्यतरद्' उद्गमादीनामेकतरदोषदुष्टमनेषणीयमाकुट्टिकया यो गृह्णाति । आकुट्टिका नाम-स्वयमेव भोक्ष्ये शैक्षस्य वा दास्यामि । एवमुपेत्य ग्रहणे येन दोषेणाशुद्धं तमापद्यते, यच्च यत्र दोषे प्रायश्चित्तं तत् तस्य भवति । अथानाभोगेनानेषणीयं गृहीतं ततो यतनया शैक्षस्य दातव्यम् । यदि अयतनया ददाति तत इमे दोषा भवन्ति। [भा.५३१८] मा सव्वमेयं मम देहमन्त्रं, उक्कोसएणं व अलाहि मज्झं।
___ किंवा ममं दिजति सब्वमेयं, इच्चेव वुत्तोतु भणाति कोई॥ वृ-तेन अनेषणीयमिति कृत्वा शैक्षस्य दत्तम्, स च शैक्षो ब्रूयात्-मा सर्वमेतद् ‘अन्नं भक्तं मम दत, अथोत्कृष्टमिति कृत्वा मे दीयते तत्रोत्कृष्टेन भक्तेन ममालम्, किं वा सर्वमेतद् मम दीयते? इति । एवं शैक्षणोक्तः कश्चिद् भणति ।। [भा.५३१९] एतं तुझं अम्हं, न कपति चउगुरुंच आणादी।
संका व आभिओग्गे, एगेन व इच्छियं होज्जा ।।
Halil a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org