________________
उद्देश : ४, मूलं- १२३, [भा. ५३१९]
१९३
वृ- 'एतत् तव कल्पते, अस्माकं तु न कल्पते' एवं भणतश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । शङ्का च तस्य शैक्षस्य आभियोगः - कार्मणं तद्विषया भवति । 'एकेन वा' केनचित् शैक्षेण तद् दीयमानमीप्सितं भवेत् तस्य च ग्लानत्वे यथाभावेन जाते सति द्वितीयशैक्ष उड्डाहं कुर्यात् ॥ इदमेव भावयति
[भा. ५३२० ]
कम्मोदय गेलने, दवण गतो करेज्ज उड्डाहं । एगस्स वा वि दिने, गिलाण वमिऊण उड्डाहो ॥
वृ- कर्मोदयाद्यथाभावेनैव ग्लानत्वे जाते सति स चिन्तयेत् - एतैः 'मा व्रतादयं प्रतिभज्यताम्' इति कृत्वा ममाभियोग्यं दत्तम् । एवं 'दृष्टवा' ज्ञात्वा स भूयो गृहवासं गतः सन् उड्डाहं कुर्यात्एतैः कार्मणं मम दत्तमिति । एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयः शैक्षो व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाहं कुर्यात् ॥ किं पुनश्चिन्तयित्वा स व्रतं वमति ? इत्याह[ भा. ५३२१] मा पडिगच्छति दिन्नं, से कम्मण तेन एस आगल्लो । जाव न दिज्जति अम्ह वि, ह नु दानि पलामि ता तुरियं ॥
वृ- मा प्रतिगमिष्यतीति बुध्या कार्मणमस्य दत्तं तेनायं “ आगल्लो” ग्लानः सञ्जातः, अतो यावदस्माकमपि कार्मणं न दीयते तावत् त्वरितमिदानीमहमपि पलाये ॥
अथवा कश्चिदिदं ब्रूयात्
[भा. ५३२२
वृ- भक्तेन 'मे' मम न कार्यम्, कल्ये वा भिक्षां गतो वा भोक्ष्ये, अन्यद्वा भक्तं मह्यं प्रयच्छत । "इय" एवमयतनया दीयमाने 'उज्झिनिका' पारिष्ठापनिका भवेत् । तस्यां च दोषाः कीटिकामक्षिकादिविराधनारूपा मन्तव्याः । अथवा एकस्य ग्लानत्वे जातेऽपरश्चिन्तयेत्
[भा. ५३२३] हनु व असंदेह, एस मओ हं तु ताव जीवामि । वग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा ॥
वृ- "हनु' त्ति 'हः' इति खेदे 'नुः' इति वितर्के । एष तावद् असन्देहं मृतः, अहं तु तावदिदानीं जीवामि, इमे च पापाः श्रमणका मृगचर्मसंवृता व्याघ्राश्चरन्ति, बहि साधुवेशच्छन्ना हिंसका अमी इति भावः । अतो यावद् एते मां जीवितान्न व्यपरोपयन्ति तावत् प्रतिगच्छामीति ।। किञ्च[भा. ५३२४] अभिओगपरज्झस्स हु, को धम्मो किं व तेन नियमेणं । अहियक्करगाहीण व, अभिजोएंताण को धम्मो ॥
Jain
भत्तेण मे न कळं, कल्लं भिक्खं गतो व भोक्खामि । अन्नं व देह मज्झं, इय अजते उज्झिणिगदोसा ।।
वृ- अभियोगेन-कार्मणेन ‘“परज्झस्स"त्ति परवशीकृतस्य मम को नाम धर्मो भविष्यति ?, किं वा तेन नियमेन मम कार्यम् ?, तथा अधिककरग्राहिणामिवामीषामप्येवमभियोजयतां को धर्म ? न कश्चिदित्यर्थः । एवं विचिन्त्य गृहवासं भूयोऽपि कुर्यात् ॥
यो ग्लानीभूयोप्रव्रजितः स प्रव्रजन्तमित्थं विपरिणमयेत्
[ भा. ५३२५] किच्छाहि जीवितो हं, जति मरिउं इच्छसी तहिं वच्च । एस तु भणामि भाग !, विसकुंभा ते महुपिहाणा ॥
For Private & Personal Use Only
20 13
International
www.jainelibrary.org