________________
बृहत्कल्प-छेदसूत्रम् - ३-४/१२३
वृ- 'कृच्छ्राद्' अतिदुःखेनाहं तावद् जीवितः, अतो यदि त्वमपि मर्तुमिच्छसि तदा 'तत्र' तेषां साधूनामन्तिके व्ज, येन भवतोऽप्येवं सम्पद्यत इति भावः । अपि च-हे भ्रातः ! एषोऽहमेकान्तहितो भूत्वा भवन्तं भणामि ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेन जीवदयाद्युपदेशकं मधुरं वो जल्पन्ति चेतसा तु विषवत् परव्यपरोपणारिदारुणपरिणामा इति हृदयम् । एवं विपरिणामितोऽसौ प्रव्रज्यामप्रतिपद्यमानः षट्कायविराधनादिकं यत् करोति तन्निष्पन्नं अयतनादायिनः प्रायश्चित्तम् ॥ किञ्च
१९४
[भा. ५३२६] वातादीनं खोभ, जहन्नकालुत्थिए विसाऽऽसंका । अवि जुञ्जति अन्नविसे, नेव य संकाविसे किरिया ।
वृ-तस्याशुद्धाहारदानानन्तरं वातादीनां क्षोभे 'जघन्यकालात्' तत्क्षणादेवोत्थिते विषाशङ्का भवति-मन्येविषममीभिर्मम दत्तं येनैवं मे सहसैव धातुक्षोभः समजनि । एवं चिन्तयतस्तस्याचिरादेव मरणं भवेत् । कुतः ? इत्याह- "अवि" इत्यादि, 'अपि' सम्भावनायाम्, सम्भाव्यते अयमर्थ-यद् अन्यस्य सर्वस्यापि विषस्य मन्त्रादिक्रिया युज्यते, शङ्काविषस्य तु 'क्रिया' चिकित्सा नैव भवति, मानसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात् । यत एंते दोषा अतो नायतनया दातव्यम् ॥
अत्र परमतमुपन्यस्य दूषयति
[भा. ५३२७] केइ पुन साहियव्वं, अस्समणो हं ति पडिगमो होज । दायव्वं जताए, नाए अनुलोमणाऽऽउट्टी ॥
वृ- केचित् पुनराचार्या ब्रुवते-स्फुटमेव तस्य कथयितव्यम्-भवत एवेदं कल्पते; एतच्च न युज्यते । यत एवमुक्ते कदाचिदसौ ब्रूयात् यत् श्रमणानां न कल्पते तद् मम यदि कल्पते तत एवमहम् 'अश्रमणः' न श्रणमो भवामि, अश्रमणस्य न निरर्थकं मे शिरस्तुण्डमुण्डनम्; इति विचिन्त्य प्रतिगमनं कुर्यात् । यत एवमतो यतनया दातव्यम् । यतनया च दीयमानं यदि ज्ञातं भवति तदा वक्ष्यमाणवचनैः ‘अनुलोमना' प्रज्ञापना तथा कर्तव्या यथा तस्य 'आवृत्ति' समाधानं भवति ।। प्रज्ञापनाविधिश्चायम्
[मा. ५३२८] अभिनवधम्मो सि अभावितो सि बालो व तं सि अनुकंपो । तव चेवऽट्ठा गहितं, भुंजिज्जा तो परं छंदा ॥
वृ- 'अभिनवधर्मा' अधुनैव गृहीतप्रव्रजयोऽसि त्वम्, अत एव 'अभावितोऽसि' नाद्यापि मैक्षभोजनेन भावितः, बालश्च त्वमसि अत एव 'अनुकम्प्यः' अनुकम्पनीयः, तत इदमुत्कृष्टद्रव्यमशुद्धमपि तवैवार्थाय गृहीतम्, अतः परं 'छन्दात्' स्वच्छन्देन भुञ्जीथाः ॥
[भा. ५३२९] कप्पो च्चिय सेहाणं, पुच्छसु अन्ने वि एस हु जिनाणा । सामाइयकप्पठिती, एसा सुत्तं चिमं बेंति ।
वृ- अपि च-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्तुं कल्पते, यदि भवतो न प्रत्ययस्ततः पृच्छ 'न्यानपि ' गीतार्थसाधून् । तेऽपि तेन पृष्टाः सन्तो ब्रुवते - एषा 'हु' निश्चितं 'जिनाज्ञा' तीर्थकृतामुपदेशः, सामायिककल्पस्य चैषैव स्थिति। सूत्रं च ते साधवः । सूत्रं च ते साधवः 'इदं' प्रस्तुतं "अत्थि या इत्थ केइ सेहतराए" इत्यादिरूपं ब्रुवते । भवेत कारणं येनाकुट्टिकयाऽपि दद्यात् ॥ कथम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org