________________
उद्देशक : ३, मूलं- १०४, [ भा. ४७३८]
प्रधाने येषां ते तथाविधा विपरिणामनपदानि कुर्वन्ति ।। उपसंहरन्नाहएएसामन्नयरं, कप्पं जो अतिचरेज्ज लोभेन । थेरे कुल गण संघे, चाउम्मासा भवे गुरुगा ।।
[भा. ४७३९]
वृ- 'एतेषाम्' अव्याहतादिद्वारकलापप्रतिपादितानां कल्पानामन्यतरं 'कल्पं' विधिं 'यः' आचार्यादिर्लोभदोषेण 'अतिचरेत्' अतिक्रामेत् तं सम्यग् ज्ञात्वा कुल-गण- सङ्घस्थविरैः कुलादिसमवायेन वा तस्य पार्श्वत् तं शैक्षमाकृष्य चत्वारो मासा गुरुकास्तस्य प्रायश्चित्तं दातव्यम् । अथ स्थविरैः समवायेन वा भणितोऽपि तं शैक्षं न समर्पयति ततः कुल-गण-सङ्घबाह्यः क्रियते ॥ मू. (१०५) अत्थि या इत्थ केइ उवस्सयपरियावन्नए अचित्ते परिहरणारिहे सच्चेव उग्गहस्स पुव्वाणुत्रवणा चिट्ठइ अहालंदमवि उग्गहे ॥
वृ- अस्य सम्बन्धमाह
[भा. ४७४० ] असहीणेसु वि साहम्मितेसु इति एस उग्गहो वृत्तो । अयमपरो आरंभो, गिहिविजढे उग्गहे होई ॥
७५
वृ- 'अस्वाधीनेष्वपि' क्षेत्रान्तरं गतेषु साधर्मिकेषु इत्येषोऽवग्रहः प्रोक्तः । अयं पुनरपरः प्रकृतसूत्रस्यारम्भो गृहिभिर्विजढः - परित्यक्तो यः प्रतिश्रयस्तद्विषयेऽवग्रहे भवति । अनेन सम्बन्धेनायातस्यास्य व्याख्या - अस्ति च 'अत्र' अनन्तरसूत्रप्रस्तुते प्रतिश्रये, किम् ? 'किञ्चिद्’ आहारा ऽर्थजातादिकं गृहस्थसत्कं उपाश्रये पर्यापन्नं विस्मृतं परित्यक्तं वा उपाश्रयपर्यापन्नम्, ‘अचित्तं’ प्राशुकम्, ‘परिहरणार्हं' साधूनां परिभोक्तुं योग्यम्, तत्र सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति, तत्रोपाश्रये तिष्ठद्भिः पूर्वमेव 'अनुजानीत प्रायोग्यम्' इत्येवं यदवग्रहोऽनुज्ञापितः सैवानुज्ञापना पश्चादुपाश्रयपर्यापन्नग्रहणे व्यवतिष्ठते न पुनरभिनवमनुज्ञापनं कर्त्तव्यमिति भावः । कियन्तं कालम् ? इत्याह- 'यथालन्दमपि' मध्यमलन्दमात्रमपि कालं यावदवग्रह इति सूत्रार्थः ॥ अथामेव सूत्रार्थं भाष्यकृत् प्रतिपादयति
[भा. ४७४१ ] आहारो उवही वा, आहारो भुंजणारिहो कोयी । दुविहपरिहार अरिहो, उवही वि य कोयि न वि कोयि ॥
वृ- इह सूत्रे किञ्चिद्ग्रहणेन आहार उपधिर्वा गहीतः, परिहरमार्हग्रहणेन तु स एव परिभोगाईः । तत्राहारः कश्चिद् भोजनार्हो भवति कश्चिच्च न भवतीति, उपधिरपि कश्चिद् द्विविधपरिहारस्यधारणा - परिभोगरूपस्यार्हो भवति कश्चिच्च न भवति ।। तथाहि
[भा. ४७४२ ] संसत्ताऽऽसव पिसियं, आहारो अनुवभोज इच्चादी । झुसिरतिण वच्चगादी, परिहारे अणरिहो उवही ।।
वृ- 'संसक्तं ' द्वीन्द्रियादिजन्तुमिश्रं भक्त - पानं 'आसवः' मद्यं पिशितं ' पुद्गलम् इत्यादिक आहारः 'अनुपभोज्यः' साधूनामुपभोक्तुमयोग्यः, शुषिरतृण-वल्ककादिक उपधिरपि 'परिहारस्य' परिभोगस्यानर्हो मन्तव्यः, अर्थादापन्नं ओदनादिक आहारो वस्त्रादिकश्चोपधि परिभोगाई इति ।।
[भा. ४७४३ ] ठायंते अनुन्नवणा, पातोग्गे होइ तप्पढमयाए ।
सो व उग्गहो खलु, चिट्ठइ कालो उ लंदक्खा ।।
वृ- साधुभिः प्रतिश्रये तिष्ठद्भिस्तत्प्रथमतया या प्रायोग्यस्यानुज्ञापना कृता भवति स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org