SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं - २०५, [ भा. ६२१६ ] ३७७ मधुरं च तस्यै दातव्यम्, शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति, उष्णे च वातश्लेष्मापहरः, यथा च वातो न लभ्यते तथा कर्तव्यम् । तथा किमयं 'दैविकः' देवेनभूतादिना कृत उपद्रवः ? उत धातुक्षोभः ? इति ज्ञातुं देवताराधनाय 'उत्सर्ग' कायोत्सर्ग क्रियते । तस्मिंश्च क्रियमाणे यद् आकम्पितया देवतया कथितं तदनुसारेण ततः क्रिया कर्तव्या । यदि दैविक इति कथितं तदा प्राशुकैषणीयेन तस्या उपचारः, शेषसाध्वीनां तपोवृद्धि, तदुपशमनाय च मन्त्रादिस्मरणमिति । अथ वातादिना धातुक्षोभ इति कथितं तदा स्निग्धमधुराद्युपचार इति ।। सम्प्रति "रक्खंताण य फिडिए" त्यादि व्याख्यानयति [ भा. ६२१७] अगडे पलाय मग्गण, अन्नगणो वा वि जो न सारक्खे । गुरुगा जं वा जत्तो, तेसिं च निवेयणं काउं ॥ वृ- अगडे इति सप्तमी पञ्चम्यर्थे, ततोऽयर्थ- 'अवटात् ' कूपाद्, उपलक्षणमेतद्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्याः 'मार्गणम्' अन्वेषणं कर्तव्यम् । तथा ये तत्राऽन्यत्र वाऽऽसने दूरे वाऽन्यगणा विद्यन्ते तेषां च निवेदनाकरणम्, निवेदनं कर्तव्यमिति भावः । यथा-अस्मदीया एका साध्वी क्षिप्तचित्ता नष्टा वर्तते । ततस्तैरपि सा गवेषीया, ध्ष्टा च सा सङ्ग्रहणीया । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिन्या अन्यगणवर्तिन्या वा तदा तेषां प्रायश्चित्तं चत्वारः 'गुरुकाः' गुरुमासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकं यच्च प्राप्स्यति मरणादिकं तन्निमित्तं च तेषां प्रायश्चित्तमिति ॥ [भा. ६२१८] छम्मासे पडियरिउं, अनिच्छमाणेसु भुज्जयरओ वा । कुल- गण - संघसमाए, पुव्वगमेणं निवेदेति ॥ वृ- पूर्वोक्तप्रकारेण तावत् प्रतिचरणीया यावत् षण्मासा भवन्ति । ततो यदि प्रगुणा जायते तर्हि सुन्दरम् । अथन प्रगुणीभूता ततः ‘भूयस्तरकमपि' पुनस्तरामपि तस्याः प्रतिचरणं विधेयम् । अथ ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छन्ति, ततस्तेष्वनिच्छत्सु कुल-गण-सङ्घसमवायं कृत्वा 'पूर्वगमेन' ग्लानद्वारोक्तप्रकारेण तस्मै निवेदनीयम्, निवेदिते च ते कुलादयो यथाक्रमं तां प्रतिचरन्ति ।। अथ सा राजादीनां सज्ञातका भवेत् तदा इयं यतना [भा. ६२१९] रन्नो निवेइयम्मिं, तेसिं वयणे गवेसणा होति । ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ वृ-यदि राज्ञोऽन्येषां वा सा पुत्र्यादिका भवेत् ततो राज्ञः, उपलक्षणमेतद्, अन्येषां वा स्वजनानां निवेदनं क्रियते, यथा- युष्मदीयैषा पुत्र्यादिका क्षिप्तचित्ता जाता इति। एवं निवेदिते यदि ब्रुवते राजादयः, यथा मम पुत्र्यादीनां क्रिया स्वयमेव क्रियमाणा वर्तते तत इहैव तामप्यानयत इति । ततः सा तेषां वचनेन तत्र नीयते, नीतायाश्च तत्र तस्या गवेषणा भवति । अयमत्र भावार्थ:साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः 'सम्बन्धिन' स्वजना वदेयुः वयमौषधानि वैद्यं वा सम्प्रयच्छामः, परमस्माकमासन्ने उपाश्रये स्थित्वा यूयं प्रतिचरथ । तत्र यदि शोभनो भावस्तदा एवं क्रियते । अथ गृहस्थीकरणाय तेषां भावस्तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते । तत्र च 'तिसृष्वपि ' आहारोपधि-‍ ध-शय्यासु यतना कर्तव्या । एष द्वारगाथासङ्क्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः “ रन्नो निवेइयम्मी” इत्येतद् व्याख्यानयति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy