________________
३७६
बृहत्कल्प-छेदसूत्रम् -३-६/२०५ [भा.६२१२] महिड्डिए उट्ठ निवेसने य, आहार विविंचणा विउस्सग्गो।
रक्खंताण य फिडिया, अगवेसणे होति चउगरुगा। वृ-महर्द्धिको नाम-ग्रामस्य नगरस्यवा रक्षाकारी तस्य कथनीयम् । तथा “उट्ट निवेसने य" त्ति मृदुबन्धैस्तथा संयतनीया यथा स्वयमुत्थानं निवेशनं च कर्तुं समर्था भवति । तथा यदि 'वातादिना धातुक्षोभोऽस्या अभूत्' इति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्ध-मधुरादिरूप आहारःप्रदातव्यः। “विगिंचण"त्ति उच्चारादेस्तस्याः परिष्ठापनं कर्तव्यम्। यदिपुनः 'देवताकृत एष उपद्रवः' इति ज्ञायते तदा प्राशुकैषणीयेन क्रिया कार्या। तथा "विउस्सग्गो" इति किमयं वातादिना धातुक्षोभः? उत देवताकृत उपद्रवः ?' इत परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः। ततस्तयाऽऽकम्पितया कथिते सति तदनुरूपो यलो यथोक्तस्वरूपः करणीयः। एवंरक्षतामपियदिसा कथञ्चित् स्फिटिता स्यात् ततस्तस्या गवेषणंकर्तव्यम्।अगवेषणेप्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासक्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतो महर्द्धिकद्वारं विवृणोति
[भा.६२१३] अम्हं एत्थ पिसादी, रक्खंताणं पि फिट्टति कताई। . साहु परिरक्खियव्वा, महिड्डिगाऽऽरक्खिए कहणा॥
वृ. 'महर्द्धिके' ग्रामस्य नगरस्य वा रक्षाकारिण्यारक्षके कथना कर्तव्या, यथा-'अत्र' एतस्मिन्नुपाश्रयेऽस्माकं रक्षतामप्येषा 'पिशाची' ग्रथिला कदाचित् 'स्फिटति' अपगच्छति सा 'हुः' निश्चितं परिरक्षयितव्या, प्रतिपन्नचारित्रत्वादिति ॥
व्याख्यातं महर्द्धिकद्वारम् । अधुना “उट्ठ निवेसने य" इति व्याख्यानयति[भा.६२१४] मिउबंधेहि तहा नं, जति जह सा सयं तु उडेति ।
उव्वरग सत्थरहिते, बाहि कुडंडे असुन्नं च ॥ वृ-मृदुबन्धैस्तथा “णं" इति तां क्षिप्तचित्तां 'यमयन्ति' बध्नन्ति यथा सा स्वयमुत्तिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वाद् निविशते च । तथा सा तस्मिन्नपवरके स्थाप्यते यत्र न किमपि शस्त्रभवति, यतःसा क्षिप्तचित्ततयायुक्तमयुक्तंवाऽजानतीशस्त्र हटवातेनाऽऽत्मानंव्यापादयेत्। तस्य चापवरकस्य द्वारंबहिः 'कुडण्डेन' वंशटोक्करादिनाबध्यते येन न निर्गत्यापगच्छति। तथा अशून्यं यथा भवति एवं सा वारेण वारेण प्रतिजागर्यते, अन्यथा शून्यमात्मानमुपलभ्य बहुतरं क्षिप्तचित्ता भूयात् ॥ [भा.६२१५] उव्वरगस्स उ असती, पुव्वकतऽसती य खम्मते अगडो।
तस्सोवरिंच चक्कं, न छिवति जह उप्फिडंती वि॥ वृ-अपवरकस्य असति' अभावे पूर्वकृते पूर्वखातेकूपेनिर्जलेसाप्रक्षिप्यते।तस्याभावेऽवटो नवः खन्यते, खनित्वा च तत्र प्रक्षिप्यते । प्रक्षिप्य च तस्यावटस्योपरि 'चक्र' रथाङ्गं स्थगनाय तथा दीयते यथा सा 'उत्स्फिटन्त्यपि' उल्ललयन्त्यपि तच्चक्रं 'नच्छुपति' नस्पृशति॥
साम्प्रतं "आहार विगिचणा" इत्यादि व्याख्यानयति[भा.६२१६] निद्ध महुरं च भत्तं, करीससेज्जा य नो जहा वातो।
___ देविय धाउक्खोभे, नातुस्सग्गो ततो किरिया॥ वृ-यदि 'वातादिनाधातुक्षोभोऽस्याः सजातः' इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org